SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ नास्ति षष्ठः पादः समासस्य अन्ते वर्तमानस्य नीच: 'गो' शब्दस्य ह्रस्वः भवति । चित्रगुः । नीचः इति किम् ? सुगौः ॥ ३१ ॥ अण्-धः के प्रत्यये । ३२ । अणः ङीप्रत्ययस्य च के प्रत्यये परे ह्रस्वः भवति । सोमपकः । सोमपिका | लक्ष्मिका । यवागुका । पट्विका । 'डी'ग्रहणं पुंभावबाधनार्थम् । प्रत्यये इति किम् ? पाकः ॥ ३२ ॥ न कचि । ३३ । अणः ङीप्रत्ययस्य च कचि परे ह्रस्वो न भवति । बहुकीलालपाकः । बहुकुमारीकः । खारीकः । काकलीकः ॥ ३३ ॥ वा आपः । ३४ । आपः कचि परे ह्रस्वो वा भवति । प्रियखट्वकः, प्रियखट्वाकः || ३४ || इत् च अपुंसः अनितः कि अस्यादेः आ । ३५ । असंभविपुंलिङ्गार्थात् शब्दात् विहितस्य आपः स्थाने अनकारानुबन्धस्य प्रत्ययस्य अवयत्रे ककारे आप्परे इकारः हृस्वश्च आदेशो भवति वा, न चेत् ककारात् परः आप् स्यादेः परो भवति । [ ९५ खट्विका, खट्वका, खट्वाका । प्रियखट्विका, प्रियखट्का, प्रियखट्वाका । अपुंसः इति किम् ? न विद्यते खट्वा अस्याः अखट्वा, अल्पा अखट्वा अखट्विका । अनितः इति किम् ? अनुकम्पिता आर्द्रा दत्ता आर्द्रका । आपि इति किम् ? प्रियखट्वाकः चैत्रः । अस्यादेः इति किम् ? प्रियखट्वाकम् अतिक्रान्ता अतिप्रियखट्वाका ।। ३५ ।। 1 स्व-ज्ञ-अज-भस्त्र-अधातु-त्यय-कोत् । ३६ । 'स्व' आदिभ्यः धातु-त्यवर्जयकार - ककाराभ्यां च परस्य आपः स्थाने अनितः प्रत्ययस्य अवयवे ककारे आप्परे इकार आदेशो वा भवति, न तु स्यादेः परे आपि । Jain Education International कुत्सिता स्वा ज्ञातिः स्विका, स्वका । अस्विका । अस्वका । ज्ञिका, ज्ञका । अजिका, अजका । निर्भस्त्रिका, निर्भत्रका । आर्यिका, आर्यका । चटकिका, चटकका । 'भस्त्र' ग्रहणं न्यगर्थम् अनीचो हि पूर्वेणैव विकल्पः सिद्धः । धातु-त्यप्रतिषेधः १ १।३।८७। शाकटायनीयं सूत्रम् । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy