________________
९२) आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । चौरं प्रणिहन्ति । चौरस्य निप्रहन्ति, चौरं निप्रहन्ति । बहुवचनं सर्वभङ्गपरिग्रहार्थम् ॥१७॥
'रुजा'अर्थस्य अज्वरि-संतापेः कर्तरि भावे । १८ । रुजा'अर्थस्य धातोः ज्वरि-संतापिवर्जितस्य तत् व्याप्यं कर्म वा भवति ।। [कर्तरि भावे-भावश्चेद् रुजः कर्ता भवैति]
चौरस्य रुजति रोगः, चौरं रुजति रोगः । अपथ्याशिनम् आमयति । 'रुजा'अर्थस्य इति किम् ? "ऐति जीवन्तम् आनन्दः' [वि० पु० ] । अज्वरि-संतापेः इति किम् ? औदरिकं ज्वरयति । अत्याशिनं संतापयति रोगः । कर्तरि इति किम् ? चौरं रुजति अत्यशने वातः । भाव इति किम् ? चौरं रुजति श्लेष्मा ॥ १८ ॥
कृतः प्रतियत्ने । १९।। सतः गुणाधानाय अपायपरिहाराय वा यत्नः तस्मिन् वर्तमानस्य करोतेाप्य कर्म वा भवति ।
एधोदकस्य उपस्कुरुते, एधोदकम् उपस्कुरुते । प्रतियत्न इति किम् ? कुम्भ करोति ॥ १९ ॥
- स्मृत्यर्थ-दय-ईशः। २० । 'स्मरण'अर्थानाम् दयतेः ईशश्च व्याप्यं कर्म वा भवति ।
मातुः स्मरति, मातरं स्मरति । मातुः अध्येति, मातरम् अध्येति । सर्पिषः दयते, सर्पिर्दयते । लोकानाम् ईष्टे, लोकान् ईष्टे । कर्मअविवक्षायाम् 'माषाणाम् अश्नीयात्' इत्यादिवत् शेषषष्ठी पक्षे सिद्धव, नियमार्थस्तु प्रपञ्चः तेन एषां 'नाथ'प्रभृतीनां धातूनां कारकान्तरं शेषरूपेण न विवक्ष्यते सर्पिषा बलस्य नाथते । मात्रा स्मृतम् । “अयत्नजे" [नाम्नि अष्टमः पादः सू० २४ ] इति समासाभावार्थश्च ॥ २० ॥
पण-व्यवह्रोः विनिमेय-यूतपणम् । २१ । विनिमेयम् क्रेय-विक्रेयम् । द्यूतपणः द्यूतजेयम् । पणतेः 'वि'-'अव'पूर्वस्य च हरतेः व्याप्यो विनिमेय-द्यूतपणौ वा कर्मसंज्ञौ भवतः ।
१ 'समस्त-व्यस्त-विपर्यस्त' इति सर्वे भङ्गाः । 'निप्रहन्ति' इत्यादि समस्तम् । 'निहन्ति'इत्यादि व्यस्तम्। 'प्रणिन्ति' इत्यादि विपर्यस्तम् । २ १।३।११३। अमोघवृत्तौ । ३ "एति जीवन्तमानन्दो नरं वर्षशतादपि । कल्याणी बत गाथेयं लौकिकी प्रतिभाति में ॥१॥ विष्णुपुराणे" इति श्रीसिद्धहेमबृहवृत्तिन्याससारसमुद्धारकाराः श्रीकनकप्रभसूरयः ।२।२।१३। अस्य सूत्रस्य न्याससारसमुद्धारे। काशिकायाम् "रुजार्थानाम्" इत्यादिसूत्रे एतत् पद्यं भिन्नरूपेण विद्यते-“एति जीवन्तमानन्दः नरं वर्षशतादपि । जीव पुत्रक ! मा मैवं तपः साहसमाचर"-२।३।५४ ४ २।२।१२। इत्यस्य सूत्रस्य वृत्तौ "पुनर्यत्नः प्रतियत्नः'। श्रीहेमचन्द्रसूरयः । ५ "शेषे षष्ठी अयत्नजे" इति संपूर्ण सूत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org