________________
नाम्नि षष्ठः पादः
ह-क्रोः वा। १३ । अनयोः अणिजि वा कर्म भवति ।
विहारयति देशम् आचार्यम् आचार्येण शिष्यः । आहारयति ओदनं बालकं बालकेन माता । विकारयति सैन्धवान् सैन्धवैर्वा । विकारयति स्वरं क्रोष्टारं क्रोष्ट्रा वा चैत्रः । एतेषु यथासंख्यं गति-आहारार्थ-नित्याकर्म-शब्दकर्मकतया प्राप्ते विकल्पः अप्राप्तेहारयति द्रव्यं मैत्रं मैत्रेग वा चैत्रः । कारयति कटं चैत्रं चैत्रेण वा मैत्रः ॥ १३ ॥ . .
___ दृशि-अभिवदोः आत्मने । १४ । दृशेः अभिपूर्वस्य वदेश्च अणिनि कर्ता णिञि सति वा कर्म भवति ।
दर्शयते राजा भृत्यान् भृत्यैर्वा । अभिवादयते गुरुः शिष्यं शिष्येण वा । आत्मने इति किम् ? दर्शयति रूपतक कार्षापणं चैत्रः । अभिवादयति गुरुः शिष्येण ।। १४ ॥
नाथः। १५ । 'अणिकर्ता णौ' इति निवृत्तम् पृथग्योगात् । आत्मनेपदविषयस्य नाथाप्यं कर्म वा भवति । आत्मनेपदविषयता च अस्य आशिषि एव इति तत्रैव अयं विधिः । ।
सर्पि थते, सर्पिषो नाथते-'सर्पि, भूयात्' इति आशास्ते इत्यर्थः । आत्मने इति किम् ? माणवकम् उपनाथति-अङ्ग ! पुत्रक ! अधीष्व-याचते इत्यर्थः ॥ १५ ॥
जास-नाट-क्राथ-पिषः हिंसायाम् । १६ । एवां हिंसायां वर्तमानानां व्याप्यं कर्म वा भवति । प्राप्ते विभाषा ।।
चौरस्य उज्जासयति, चौरम् उज्जासयति । चौरस्य उन्नाटयति, चौरम् उन्नाटयति । चौरस्य उत्क्राथयति, चौरम् उत्क्रश्रयति । चौरस्य पिनष्टि, चौरं पिनष्टि । हिंसायाम् इति किम् ? 'जस् मोक्षणे'-चौरं बन्धनात् जासयति-मोक्षयति इत्यर्थः । 'नट नृत्तौ' नटं नाटयति नर्तकी । जास-नाट-काथानाम् उपान्त्यआकारनिर्देशः यत्र आकारश्रुतिः तत्रैव यथा स्यात् , तेन इह न भवति-दस्युम् उदजीजसत् । चौरम् अनीनटत् । दस्युम् उदचिक्रथत् । अत एव काथेः कर्मसंज्ञाप्रतिषेधपक्षे हस्वत्वाभावः ॥ १६ ॥
नि-प्रेभ्यः हनः । १७ । 'नि'-'प्र'पूर्वस्य हन्तेाप्यं कर्म वा भवति । चौरस्य निहन्ति, चौरं निहन्ति। चौरस्य प्रहन्ति, चौरं प्रहन्ति । चौरस्य प्रणिहन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org