________________
९० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
आसयति चैत्रं मैत्रः । शाययति शिशुं माता । गमयति ग्रामं बटुं चैत्रः । बोधयति माणवकं धर्मं गुरुः । ज्ञापयति शिष्यं धर्मम् .। भोजयति बटुम् ओदनं चैत्रः । आलापयति मैत्रं चैत्रः । आभाषयति चैत्रं गुरुं मैत्रः । श्रावयति मैत्रं शास्त्रं गुरुः । दर्शयति रूपतकै कार्षापणं चैत्रः । 'नित्यअकर्म आदिग्रहणं किम् ? पाचयति ओदनं चैत्रेण । 'नित्य'ग्रहणम् अविवक्षितकर्मकव्युदासार्थम् । काल-अध्व-भाव-देशैः सर्वेऽपि धातवः सकर्मकाः इति अन्यकर्मापेक्षया नित्यअकर्मकाः । गतेः देशान्तरप्राप्तिरूपायाः ग्रहणम् इति इह न भवति-गमयति स्त्रियं मैत्रेण चैत्रः । नयतिश्च प्रोपणाधीनप्राप्त्यर्थः इति न भवति-अजां नाययति ग्रामं चैत्रेण मैत्रः । बोधः ज्ञानमात्रम् न तद्विशेषः तथा च दृशिग्रहणम् । तेन इह न भवति-घ्रापयति चैत्रेण उत्पलं मैत्रः । स्पर्शयति बाला चैत्रेण स्तनयुगम् । अखादि-अदि-क्रन्द-शब्दाय-कैः इति किम् ? खादयति मोदकं चैत्रेण मैत्रः । शब्दाययति चैत्रो मैत्रेण शिशुम् । क्रन्दयति मैत्रं चैत्रेण । ह्वाययति मैत्रं चैत्रेण । खादि-अदोः अद्यर्थत्वात् ह्वा-शब्दाय-क्रन्दां च शब्दकर्मकत्वात् कर्मत्वे प्राप्त प्रतिषेधः, ततः स्वव्यापाराश्रयं कर्तृत्वमेव । प्रयोजकव्यापारेण अणिकर्तुः व्याप्यत्वात् कर्मसंज्ञा सिदैव, नियमार्थ तु वचनम् ॥ १० ॥
भक्षेः हिंसायाम् । ११। भक्षयतेः स्वार्थिकण्यन्तस्य हिंसार्थस्य अणिञवस्थायां कर्ता णिनि सति कर्म भवति ।
__ भक्षयति बलीवर्दान् शष्पं मैत्रः । वनस्पतीनां प्रसव-प्ररोह-वृद्धयादिमत्त्वेन चेतनत्वात् तत्स्वामिनः वा तीव्रतरदुःखोत्पादात् भक्षेहिँसार्थता । हिंसायाम् इति किम् ? भक्षयति पिण्डी शिशुना चैत्रः । भक्षयति पुत्रान् गार्या । भक्षयतिः अत्र आक्रोशविषयः । अद्यर्थत्वात् पूर्वेणैव सिद्धौ नियमार्थं वचनम् ॥ ११ ॥
वहेः प्रवेयः । १२। प्राजिक्रियाव्याप्यः प्रवेयः । वहेः अणिञवस्थायां प्रवेयः कर्ता णिजि सति कर्म भवति ।
.. वाहयति बलीवर्दान् भारं कृषीवलः । प्रवेय इति किम् ? वाहयति भारं चैत्रेण । प्राप्त्यर्थे अकर्मकार्थे [च] वहौ नियमार्थम् प्रापणार्थे विध्यर्थं च वचनम् ॥ १२ ॥
१ प्रापणार्थः न प्राप्त्यर्थः पा० । २ ह्वयः इति पा० पू० । ३ शस्यं पू० । शष्पम्सस्यम् सचेतनं तृणादिकम् । ४ यः वनस्पतीनां स्वामी तम् अपृष्ट्वा चौर्य पूर्वकत्वेन तृणादिकवनस्पतिभक्षणे तत्स्वामिनः दुःखोत्पादो भवत्येव इति आशयः । ५ "प्राप्त्यर्थे अकर्मके च वही नियमार्थम् प्रापणार्थे विध्यर्थं च वचनम्" १ । ३ । १२० । अमोघवृत्ती।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org