________________
नाम्नि षष्ठः पादः
[ ८९ येन कृत्वा क्रियते तत् कारकं करणसंज्ञं भवति । दात्रेण लुनाति । रथेन दीपिकया पथा याति ॥ ६ ॥
कर्तुः व्याप्यं कर्म । ७। का यत् क्रियया व्याप्यते तत् कारकं कर्मसंज्ञं भवति ।
कटं करोति । काष्ठं दहति । गां दोग्धि पयः । अजां नयति ग्रामम् । कर्तुः इति किम् ? माषेषु अश्वं बध्नाति-अश्वेन कर्मणा भक्षणक्रियया स्पर्शनक्रियया वा व्याप्यानां माषाणां कर्मसंज्ञा मा भूत् ॥ ७ ॥
अकर्मणां वा काल-अध्व-भाव-देशम् आधारः अकर्म च । ८। ____कालः मुहूर्तादिः । अध्वा गन्तव्यक्षेत्रं क्रोशादिः । भावः क्रियायोगः दोहादिः। देशः ग्राम-जनपद-नदी-पर्वतादिः । अकर्मणां धातूनां कालादिः आधारः कर्म वा भवति अकर्म च कर्मसंज्ञापक्षेऽपि अकर्मसंज्ञा भवति इत्यर्थः ।
मासम् आस्ते, मासः आस्यते । क्रोशं स्वपिति । गोदोहम् आस्ते । कुरून् स्वपिति । सकर्मका अपि अविवक्षितकर्मागः अकर्मकाः-मासं पचति । क्रोशम् अधीते । पक्षे रात्रौ सुप्यते । रात्रौ अधीतम् । काल-अध्व-भाव-देशम् इति किम् ? गृहे आस्ते । अकर्म च इति किम् ? मासम् आस्यते । अकर्मणाम् इति किम् ? रात्रौ व्याकरणम् अधीतम् । कथं 'पचति ओदनं मासम्' 'पिबति पयः गोदोहम्' ? द्विकर्मकतया “कर्तुः व्याप्यं कर्म" [ नाम्नि षष्ठः पादः सूत्र ७] इत्येव भावात् ॥ ८ ॥
. अणिकर्ता णौ।९। अकर्मकाणाम् अणिञवस्थायां यः कर्ता स णिनि सति कर्म वा भवति ।
पाचयति चैत्रम् चैत्रेण वा मैत्रः । 'गमयति चैत्र मैत्रः' इत्यत्र तु परत्वाद् नित्य एव विधिः । उत्तरत्र 'नित्यअकर्म'ग्रहणात् इह अविवक्षितकर्मणां ग्रहणम् ॥ ९॥ नित्यअकर्म-गति-बोध-अद्यर्थ-शब्दकर्म-दृशः अखादि-अदि-क्रन्द
. शब्दाय-हः।१०। 'वा' इति निवृत्तम् । 'नित्यअकर्म' ग्रहणात् नित्यअकर्मकाणाम् गत्यर्थानाम् बोधार्थानाम् ( अद्यर्थानाम्] शब्दक्रियाणाम् शब्दकर्मणाम् दृशेश्च खादि-अदि-क्रन्दशब्दाय-हृवर्जितानाम् अणिञवस्थायां यः कर्ता स णिजि सति कर्म भवति । १ भक्षणार्थानाम् इति भावः । २ शब्दकर्मकाणाम् पा० । १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org