________________
८८] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । ततः अदृश्यतया अपैति इत्यर्थः । अधर्मात् जुगुप्सते, अधर्मात् विरमति, धर्मात् प्रमाद्यतिजुगुप्सादिपूर्वकं ततो भावेन निवर्तते । भोजनात् पराजयते, अव्ययनात् पराजयतेभोजनम् अध्ययनं' वा असहमानः ततो निवर्तते इत्यर्थः । चैत्रात् मैत्रः पटुतरः-चैत्रः मैत्रेण पटुत्वेन संसृष्टः ततः अतिशयधर्मेग विभक्त इत्यर्थः । एवं माथुराः पाटलिपुत्रकेभ्यः आढयतराः ॥ २॥
कर्मणा यम् अभिप्रैति तत् संप्रदानम् । ३ । कर्मणा यम् अभिसंबध्नाति तत् कारकम् संप्रदानसंज्ञं भवति ।
राक्षे कार्यम् आवेदयति । कुबेराय बलिः । 'अभि'ग्रहणात् इह न भवति-नतः पृष्ठं ददाति । इह च भवति-छात्राय चपेटां प्रयच्छति ॥ ३ ॥
शयादिभिः बहुलम् । ४ । शयादिक्रियाभिः यम् अभिप्रेति तत् कारकं संप्रदानसंज्ञं भवति बहुलम् ।
पत्ये शेते। चैत्राय कथयति । श्राद्धाय गैल्हते। युद्धाय सन्नह्यति। चैत्राय क्रुध्यति । चैत्राय द्रुह्यति । छात्राय असूयति । क्वचिद् विकल्पः-प्रगम्य शास्त्रे , प्रगम्य शास्तारम् । पुष्पेभ्यः स्पृहयति, पुष्पाणि स्पृहयति । क्वचित् प्रवृत्तिः क्वचित् अप्रवृत्तिः ।
क्वचित् विभाषा क्वचित् अन्यत् एव । विधेविधानं बहुधा समीक्ष्य
चतुर्विधं बाहुलकं वदन्ति ॥ __ 'पशुना रुद्रं यजति' इति पूजायां यथालक्षणमेव कर्म-करणे । 'पशुं रुद्राय ददाति' इति विवक्षायां च अत एव बाहुलकात् सिद्धि : ॥ ४॥
क्रियाश्रयस्य आधारः अधिकरणम् । ५। क्रियाश्रयस्य कर्तुः कर्मणः वा यः आधारः तत् कारकम् अधिकरणसंज्ञं भवति ।
कटे आस्ते । 'दिवि देवाः । तिलेषु तैलम् । गङ्गायां घोषः । युद्धे संनयति । अङ्गुल्यग्रे करिशतम् ॥ ५ ॥
येन क्रियते तत् करणम् । ६। . १ नं चाऽसह० पू० । २ माधुरा: पा० । ३ गल्हते गर्हते-निन्दति-इत्यर्थः । . चतुर्थी विभक्तिः । ५ यजन्ति इति पा० । ६ दिवे देवाः पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org