________________
नाम्नि पञ्चमः पादः
नृ - नरयोः ङी 'नार' आदेशश्व - नारी |
'सवि' शब्दस्य 'सख' शब्दस्य वा ङी-सखी ।
पत्युः ऊढायाम् नश्च अन्तादेशः -पत्नी | पतिः अस्याः अस्ति इति पतिवत्नी अविधवा ।
अन्तर्वत्नी गर्भिणी |
भोज - सूतयोः अन्तस्य ष्यङ् यथासंख्यं क्षत्रिया - युवत्योः - भोज्या क्षत्रिया | सूत्या प्राप्तयौवना मानुषी । भोजा, सूता अन्या ॥
६९ ॥
यूनः तिः । ७० ।
'युवन्' शब्दात् स्त्रियां ति प्रत्ययो भवति । युवतिः ॥ ७० ॥
क्रोष्टोः
ः ऋः । ७१ ।
Jain Education International
[ ८७
स्त्रियां वर्तमानस्य 'क्रोष्टु' शब्दस्य ऋकारः अन्तादेशो भवति । क्रोष्ट्री । पञ्चभिः क्रोष्ट्रीभिः क्रीतः पञ्चकोष्टभी रथैः ॥ ७१ ॥
इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ नाम्नि पञ्चमः पादः समाप्तः ॥
नाम्नि षष्ठः पादः
क्रियाहेतुः कारकम् | १ |
क्रियायाः हेतुः कर्तृआदि कारकं भवति । तत् च स्व-परसमवेत क्रियानिष्पादनविषयं सामर्थ्यम्, 'करोति' इति 'कारकम्' इति अन्वर्थाश्रयणात् च अनाश्रितव्यापारस्य हेत्वादेः निमित्तमात्रस्य कारकत्वव्युदासः ॥ १ ॥
अपाये अवधिः अपादानम् । २ ।
कायसंसर्गपूर्वकः बुद्धिसंसर्गपूर्वको वा विश्लेषः अपायः, तस्मिन् यद् अवधिभूतं तत् कारकम् अपादानसंज्ञं भवति ।
चौरेभ्यः त्रायते—तदुपघातप्रतीकारेण ततो निवर्तयति । शृङ्गात् शरो जायते - ततः आत्मानं प्रतिलभमानः निस्सरति । एवम् हिमवतः गङ्गा प्रभवति । उपाध्यायात् अन्तर्धत्ते -
For Private & Personal Use Only
www.jainelibrary.org