________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
इञः इतः। ६३ । 'इ'अन्तात् इकारान्तात् स्त्रियां ङी भवति । सुतंगमेन निर्वृत्ता सौतंगमी । इतः इति किम् ? औडुलोम्या । ६३ ॥
नुः जातेः । ६४। 'इकार'अन्तात् नृजातिवाचिनः स्त्रियां ङी भवति ।
अवन्ती । नुः इति किम् ? तित्तिरिः । जातेः इति किम् ? निष्कौशाम्बिः । इतः इति किम् ? दरत् ॥ ६४ ॥
उतः अप्राणिनश्च अयु-रज्जुआदिभ्य ऊङ् । ६५ । 'उकार'अन्तात् नृजातिवाचिनः अप्राणिजातिवाचिनश्च परः स्त्रियाम् अङ प्रत्ययो भवति, 'यु'शब्दान्त-रज्जुआदींश्च वर्जयित्वा ।
... ब्रह्मबन्धूः । अलाबूः। उतः इति किम् ? वधूः । अप्राणिनश्च इति किम् ? आखुः । जातेः इति किम् ? पटुः । अयु-रज्जुआदिभ्य इति किम् ? अध्वर्युः इयं कन्या । रज्जुः । हनुः । ‘रज्जु'आदयः प्रयोगगम्याः ॥ ६५ ॥
उत्तरपदात औपम्ये । ६६ । उत्तरपदात् स्त्रियां वर्तमानात् औपम्ये गम्यमाने ऊङ् प्रत्ययो भवति । कदलीस्तम्भोरूः । औपम्ये इति किम् ? पीनोरुः ॥ ६६ ॥
सह-शफ-सहित-संहित-लक्ष्मण-वामआदेः । ६७ । 'सह'आदि-आदेः उत्तरपदात् स्त्रियाम् ऊङ् प्रत्ययो भवति । . सहोरूः। शफोरूः । सहितोरूः । संहितोरूः । लक्ष्मणोरूः । वामोरूः ॥ ६७ ।।
' बावन्त-कद्रु-कमण्डलोः नाम्नि । ६८। 'बाहु'अन्तआदेः स्त्रियां नाम्नि विषये ऊङ् प्रत्ययो भवति ।
मद्रबाहूः । भद्रबाहूः । कः । कमण्डलूः । नाम्नि इति किम् ? वृत्तबाहुः । कद्रुः । कमण्डलुः ॥ ६८॥
'प'आदिः । ६९ । 'पशू'आदय, 'ऊआदिप्रत्ययान्ताः स्त्रियां निपात्यन्ते । पङ्गुः । 'श्वसुर' शब्दस्य धवयोगे जातो वा श्वश्रूः । १ "लक्षण" इति २“लक्षणोरः" इति च पाणिनीये-४११७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org