SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ नाम्नि पञ्चमः पादः दृढपत्नी, दृढपतिः । बहुपत्नी बहुपतिः ॥ ५५ ॥ हिम-अरण्यात् उरौ आनड् । ५६ । आभ्यां महति अर्थे स्त्रियां वर्तमानाभ्यां परः ङी भवति, तद्योगे च आनड् अन्तादेशः । उरु हिमम् हिमानी । उरु अरण्यम् अरण्यानी ॥ ५६ ॥ यवन-यवात् लिपि-दुष्टे । ५७।। 'यवन - यव'शब्दाभ्यां लिपौ दुष्टे च अर्थे स्त्रियां ङी भवति, तद्योगे च आनड् अन्तादेशः । यवनानी लिपिः । दुष्ट: यवः यवानी ॥ ५७ ॥ आर्य-क्षत्रियात् वा । ५८ । आभ्यां स्त्रियां वा ङी भवति, तद्योगे च आनड् अन्तादेशः । आर्यागी, आर्या । क्षत्रियागी, क्षत्रिया। धवयोगे तु नित्यमेव ङी-आर्यो । क्षत्रियी ।। ५८ ॥ यत्रः वा यञ् [आयेनड्] । ५९। 'यञ्'अन्तात् स्त्रियां ङी भवति, तद्योगे च आयनड् अन्तादेशो वा । गार्गी, गाायणी ॥ ५९ ॥ 'लोहित आदि सकल'अन्तात् । ६० । 'लोहित'आदेः 'सकल'अन्तात् स्त्रियां ङी भवति तद्योगे च आयनड् अन्तादेशः । लौहित्यायनी । सौमित्यायनी । साकल्यायनी ॥ ६० ॥ ष-अवटात् वा । ६१ । 'घ'अन्तात् 'अवट'शब्दाच्च स्त्रियां वा ङी भवति, तद्योगे च आयनड् अन्तादेशः । पौतिमाष्यायणी, पौतिमाष्या । आवट्यायनी, आवट्या ॥ ६१ ॥ कौरव्य-आसुरि-माण्डूकात् । ६२। एभ्यः स्त्रियां ङी भवति, तद्योगे च आयनड् अन्तादेशः । कौरव्यायणी । आसुरायणी । माण्डूकायनी ॥ ६२ ॥ १ अत्र त्रुटितम् अतः [ ] एतचिहान्तर्गतम् समनुसंहितम् । “यो डायन् च वा"। २१४६७। इत्येवं हैम सूत्रं समनुसंधेयम् । २"शकल" इति हैमं सूत्रम् । २।४।६८ ३ सांसित्यायनी पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy