________________
48 ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
गौरी। मत्सी। नदी। गौरादीनां संबन्धिन्यां स्त्रियाम् इति किम् ? बहुगौरा नगरी।
गौर मत्स्य मनुष्य ऋष्य हय गवय मुकय शिङ्ग शृङ्ग पुट द्रुग द्रोण हेरीकणी बटर ओकण आमलक कुवल वरद विश्व तर्कार शर्कार शर्कर शालन्द शष्कड सुसव पाण्डश आनन्द आढक सृपाट शष्कुल सूर्म सूच यूष सूष मालक शल्लक मालत धातक वेतस वृस अतस उमाभङ्ग मह मठ देह लवण सिव सौधर्म आयस्थूण भौलिङ्गि आलम्बि आलच्चि कालच्चि औद्ग्राहमानि भौरिकि भौलिकि आरट कटेटन मूलाट अधिकार सुन्दर मन्दर मण्डर पट पिण्ड ऊर्द सूर्द गूर्द पाण्ड लोहाण्ड कदर कदल तरुण तलुन अनडुही अनड्वाही आग्रहायगी पृथिवी विकल विष्कल आश्मरथ्य काव्य शैव्य एहि पर्येहि असल उद पड चण्ड नद भष प्लव चर गर तर चोर गाह सूद देव पिप्पल कोशातक शम करीर ।
जातिवाचिनः पाक-कर्ण-पर्ण-वालान्ताः । असत्-काण्ड-प्रान्त-शत-एक-अञ्चपूर्वाः पुष्पान्ताः । असम्-भस्त्रा-अजिन-एक-शण-पिण्डपूर्वाः फलान्ताः । अनपूर्वः मूलान्तः । समान-आये-कृत-पाप-अवर-मामक-भागधेय-भेषज-सुमङ्गलाः संज्ञायाम् ।
कुश-कामुक-कट-कबर-कुण्ड-गोण-भाज-स्थल-नागाः यथासंख्यम् आयस-मैथुनेच्छ-श्रोणि-केशपाश-अमत्र-आवपन-श्राण-अकृत्रिम-स्थूलेषु ।
काल-शबल-सारङ्ग-पिङ्गल-कल्माषाः वर्णे । नील: प्राणि-ओषध्योः । रेवत-रोहिणी नक्षत्रे । इति ।
गौरादिः आकृतिगणः । संप्रत्ययः पाठः पुंभावनिवृत्त्यर्थः-अनडुहीभार्यः । "लुगभावार्थः" [ ] इति एके-पञ्चानडुहिः ।। ५३ ॥
__ अण-अञ्-एय-इकण-न-स्नञ्-टितः । ५४। एतत्प्रत्ययान्तेभ्यः अदन्तेभ्यः स्त्रियां ङी भवति । औपगवी । औत्सी-। सौपर्णेयी । आक्षिकी । स्त्रैणी । पास्नी ! कुरुचरी ॥५४॥
नश्च पत्यन्तस्य वा । ५५। 'पति'शब्द-अन्तात् स्त्रियां वर्तमानात् ङी वा भवति, तद्योगे च अन्तस्य 'नकार' आदेशः ।
१ "हरिण कण पटर उकण आमलक" इत्यादि काशिकापाठः ४।१।४१। अत्रापि 'हरीकणी' इत्येवम् ईदन्तापेक्षया 'हरिण' कण' इत्येवम् अदन्तं शब्दद्वयं समुचितम् । २ 'अनडुही' इत्यादीनां चतुणां शब्दानां पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org