SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ नाम्नि पञ्चमः पादः [ . कल्याणपुच्छी, कल्याणपुच्छा । असह-नञ्-विद्यमानात् इति किम् ? सहपुच्छा ॥ ४६॥ कबर-मणि-विष-शरात् । ४७। ___ एभ्यः परः यः स्वाङ्गवाची 'पुच्छ'शब्दः तदन्तात् समासात् स्त्रियां ङीनित्यं भवति । कबरपुच्छी । मणिपुच्छी । विषपुच्छी । शरपुच्छी ॥ ४७ ॥ पक्षात् च उपमानात् । ४८ । उपमानवाचिपूर्वपदात् 'पक्ष-पुच्छ' अन्तात् समासात् स्त्रियां ङी भवति । उल्लूकपक्षी शाला । उलूकपुच्छी सेना ॥ ४८ ॥ न नख-मुखात् नाम्नि । ४९ । 'नख'-'मुख'अन्तात् समासात् स्त्रियां ङी न भवति, नाम्नि विषये । सूर्पणखा । गौरमुखा । नाम्नि इति किम् ? सूर्पनखी । गौरमुखी कन्या ॥४९॥ क्रोडादिभ्यः । ५०। 'कोड'आदि-अन्तात् समासात् स्त्रियां ङी न भवति । कल्याणक्रोडा । कल्याणखुरा । सुभगा । सुगला ॥ ५० ॥ करणात् क्रीतात् । ५१ । करप्पवाचिनः पूर्वपदात् परं यत् 'क्रीत' इति, तदन्तात् समासात् स्त्रिया ङी भवति । वस्त्रक्रीती । वसनक्रीती । करणात् इति किम् ? सुक्रीता । दुष्क्रीता । समासात् इति किम् ? वस्त्रेण क्रीता ।। ५१ ।। क्तात् अल्पे । ५२। 'करण'पूर्वपदात् 'क्त'प्रत्ययान्तात् समासात् स्त्रियां ङी भवति, पूर्वपदस्य अल्पत्वे गम्यमाने । अभ्रविलिप्ती द्यौः-अल्पाभ्रा इत्यर्थः । सूपविलिसी पात्री। अल्पे इति किम् ! चन्दनानुलिप्ती कन्या ।। ५२ ।। - 'गौर आदीनाम् । ५३। 'गौर आदीनां संबन्धिन्यां स्त्रियां वाच्ययोगेभ्यः परो ङी प्रत्ययो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy