________________
८२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
एभ्य 'धव'आख्येभ्यः योगात् स्त्रियां वर्तमानेभ्यः डी प्रत्ययो भवति, तद्योगे च 'आन' अन्तादेशः । ... वरुणानी । इन्द्राणी । मृडानी । भवानी। शर्वागी । रुद्रागी। पृथग्योगः आनडः नित्यार्थः ॥ ४२ ॥
सूर्यात् वा देवतायाम् । ४३ । 'सूर्य'शब्दात् 'धव'आख्यात् योगात् देवतायां स्त्रियां वर्तमानात् ङी वा भवति, तद्योगे च 'आनड्' अन्तादेशः ।
सूर्यस्य भार्या सूर्याणी, सूर्या । देवतायाम् इति किम् ? सूरी अन्या ॥ ४३ ॥ अस्वाङ्गात् असह-नब्-विद्यमानात् स्वाङ्गात् समासात् । ४४।
'सह'आदिवर्जात् अस्वाङ्गात् परं यत् स्वाङ्गवाचि तदन्तात् समासात् अदन्तात् स्त्रियां वा डी भवति ।
पीनस्तनी, पीनस्तना। अतिकेशी, अतिकेशा । 'सह'आदिप्रतिषेधः किम् ? सहकेशा । अकेशा । विद्यमानकेशा । अस्वाङ्गात् इति 'किम् ? पाणिपादा । स्वाङ्गात् इति किम् ? बहुशोफा ।
"अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत् तन्निभं च प्रतिमादिषु" ॥ [हैमसंग्रहश्लोके ४ ] ॥ ४४ ॥ नासिका-उद-ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गा-अङ्ग-गात्र-कण्ठात् ।४५॥ - 'नासिका'आदि-अन्तात् 'सह'आदिवर्जेस्वाङ्गपूर्वपदात् समासात् स्त्रियां वा
डी भवति ।
दीर्घनासिकी, दीर्घनासिका । तलोदरी, तलोदरा । बिम्बोष्ठी, बिम्बोष्ठा । समजची, समजङ्घा । चारुदन्ती, चारुदन्ता । लम्बकर्गी, लम्बकर्णा । वक्रशृङ्गी, वक्रशृङ्गा । तन्वङ्गी, तन्वङ्गा । मृदुगात्री, मृदुगात्रा। कलकण्ठी, कलकण्ठा । पूर्वेण एव सिद्धे नियमार्थ वचनम्-तेन बहुस्वर-संयोगोपान्तेभ्यः अन्येभ्यो न भवति-सुललाटा । सुपार्था । 'सह'आदिप्रतिषेधः किम् ? सहनासिका । द्विगोस्तु नित्यमेव ङो-द्विपादी। त्रिपादी॥ ४५ ॥
पुच्छात् । ४६। 'सह'आदिवर्जस्वाङ्गपूर्वपदात् समासान्तात् स्त्रियां वा ङी भवति ।
१ किम् ? बहुशोफा पा० । २ “अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थ तत्र दृष्टं चेत् तेन चेत् तत् तथायुतम्" ॥ काशिका ४।११५४ । ३ नियमार्थवचनम् पा०।४ अन्येभ्योऽन्येभ्यो न पू० ।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org