________________
[८१
नाम्नि पश्चमः पादः इति किम् ? क्षत्रिया । मक्षिका । शूद्रा । 'मत्सी'इत्यादिः गौरादिः । 'य' इति वर्णमात्रग्रहणम् तेन स्थानिवद्भावाभावात् 'वतण्डी' इत्यत्र प्रतिषेधो न भवति । 'अतः' इत्यधिकारात् उपान्यस्य यकारान्तत्वोपचारः । 'महाशूी' इति समुदायात् ङी। जातिलक्षणस्य अयं प्रतिषेधः धवयोगलक्षणस्तु भवत्येव-शूद्रस्य भार्या शूद्री । अतः इति किम् ? आखुः ॥ ३७ ॥
धवात् योगात् अज्येष्ठादिभ्यः । ३८ । धवः भर्ता तदभिधायिनः अकारान्तात् संबन्धात् स्त्रियां वर्तमानात् ङी प्रत्ययो भवति, न तु 'ज्येष्ठ'आदिभ्यः ।
प्रष्ठस्य भार्या प्रष्ठी। गणकी। 'प्रष्ठ' आदयः 'सः अयम्' इत्यभिसंबन्धात् भार्यायां वर्तन्ते । 'तस्य इदम्' विवक्षायां तु 'प्राष्ठी' इत्यादि भवति । कुमार्या भवः कौमारः तस्य भार्या कौमारी सा एव 'कुमारी' इति उच्यते । धवात् इति किम् ? प्रसूता । योगात् इति किम् ? देवदत्तो धवः, देवदत्ता भार्या स्वत एव, न तद्योगात्। अज्येष्ठादिभ्यः इति किम् ? ज्येष्ठा । कनिष्ठा । मध्यमा । गोंपालिका । पशुपालिका । इति ज्येष्ठादिः । अत इति किम् ? सहिष्णोः भार्या सहिष्णुः ।। ३८ ॥
पूतक्रतु-अग्नि-वृषाकपि-कुसित-कुसीदात् ऐ च । ३९ ।
एभ्यः धववाचिभ्यः तद्योगात् स्त्रियां वर्तमानेभ्यः परः डी प्रत्ययो भवति, तद्योगे च ऐकारः अन्तादेशः । पूतक्रतोः भार्या पूतक्रतायी। अग्नायी। वृषाकपायी। कुसितायी। कुसीदायी॥ ३९ ।।
मनोः औ च वा । ४०। मनुशब्दात् धवाख्यात् तद्योगात् स्त्रियां वर्तमानात् ङी प्रत्ययो वा भवति, तयोगे च औकारः ऐकारश्च अन्तादेशः ।। • मनोः भार्या मनावी, मनायी, मनुः ॥ ४० ॥
मातुल-आचार्य-उपाध्यायात् आनड् वा । ४१ ।
एभ्यः 'धव'आख्येभ्यः योगात् स्त्रियां वर्तमानेभ्यः ङी प्रत्ययो भवति, तद्योगे च 'आनड्'अन्तादेशो वा । मातुलानी, मातुली । आचार्यानी, आचार्यो। उपाध्यायानी, उपाध्यायी ॥ ४१ ॥
वरुण-इन्द्र-मृड-भव-शर्व-रुद्रात् । ४२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org