________________
८० ]
अजादिः । 'उत्तानशया' 'लोहितपादिका' 'द्विवर्षा' नैताः तु वयः प्रतीतिः ॥ ३२ ॥
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
वयः श्रुतयः,
द्विगोः । ३३ ।
अकारान्तात् द्विगोः स्त्रियां ङी भवति । पञ्चपूली ॥ ३३ ॥
तद्धितलुचि परिमाणात् एव अविस्त-आचित कम्बल्यात् । ३४ ।
विस्त-आचित-कम्बल्यवर्जे यत् परिमाणवाचि तदन्तात् द्विगोः अकारान्तात् तद्धितप्रत्ययस्य लुचि सत्यां स्त्रियां वर्तमानात् परो ङी भवति ।
अर्थ - प्रकरणादिना
द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । परिमाणात् इति किम् ? पञ्चभिः अचैः क्रीता पञ्चाश्वा । एवकारः इष्टनियमार्थः तेन इह प्रतिषेधो न भवति- द्वयोः कुडवयोः समाहारः द्विकुडवी । तद्धितलुचि इति किम् ? द्विपण्या | 'विस्त' आदिप्रतिषेधः किम् ? द्विविस्ता । याचिता । द्विकम्बल्या ॥ ३४ ॥
Jain Education International
काण्डात् अक्षेत्रे । ३५ ।
'काण्ड' अन्तात् अक्षेत्रविषयात् द्विगोः तद्धितलुचि सत्यां स्त्रियां ङी भवति ।
द्वाभ्यां काण्डाभ्यां क्रीता द्विकाण्डी । त्रिकाण्डी । अक्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः । ' काण्डं परिमाणं न' इति नियमेन प्रतिषेधे प्राप्ते वचनम् ॥ ३५ ॥
पुरुषात् प्रमाणात् वा । ३६ ।
आयामः प्रमाणम्, प्रमाणवाचि 'पुरुष' शब्दान्तात् द्विगोः तद्धितलुचि स्त्रियां वा ङी भवति ।
द्वौ पुरुषौ प्रमाणम् अस्याः द्विपुरुषी, द्विपुरुषा । प्रमाणात् इति किम् ? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा । समाहारे तु नित्यमेव ङी - द्विपुरुषी ॥ ३६ ॥ जातेः अय-नित्यस्त्री-शूद्रात् । ३७ ।
जतिवाचिनः अदन्तात् स्त्रियां ङी भवति, न तु यान्त - नित्यस्त्रीलिङ्ग - शूद्रात् । कुक्कुटी । नाडायनी । कठी । जातेः इति किम् ? देवदत्ता । अय- नित्यस्त्री-शूद्रात् १ " ऊर्ध्व मानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः " ॥ हैमे वचनम् - २।४।२३ । २ द्विकाण्डी । अक्षेत्र पा• 1 ३ ' आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्घाह्या गोत्रं च चरणैः सह " ॥ इति काशिका ४।१।६३ । इत्येवं जातिलक्षणं बोध्यम् ।
For Private & Personal Use Only
www.jainelibrary.org