SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ नाम्नि पञ्चमः पादः [७९ बहुराज्यौ, बहुराजानौ । बहुव्रीहेः इति किम् ? निस्तक्ष्णी ॥ २५ ॥ नाम्नि । २६ । ३नादेशवत्'अन्'अन्तात् बहुव्रीहेः स्त्रियां ङी भवति । अधिराज्ञी, सुराज्ञी नाम ग्रामः । नित्यार्थ वचनम् ॥ २६ ।। न अन्यतः । २७ । इनवतः यः अन्यः अन् तदन्तात् बहुव्रीहेः स्त्रियां ङी न भवति । सुपर्वा । सुशर्मा ॥ २७ ॥ अशिशोः ॥२८॥ अशिशोः बहुव्रीहेः स्त्रियां ङी भवति । अशिश्वी । बहुव्रीहेः इति किम् ? न शिशुः ॥ २८ ॥ ऊधनः । २९ । 'ऊधन्'अन्तात् बहुवी हेः स्त्रियां ङी भवति । कुण्डोनी । 'इनवतः नः" [नाम्नि पञ्चमः पा० सू० २५] इति विकल्पे प्राप्ते वचनम् ॥ २९ ॥ संख्यादेर्दाम्नः । ३० । संख्यादेः 'दामन् अन्तात् बहुव्रीहेः स्त्रियां ङी भवति । द्विदाम्नी । त्रिदाम्नी । संख्यादेः इति किम् ? उद्दामानम् , उद्दामाम् , उद्दाम्नी वडवां पश्य ॥ ३० ॥ हायनात् वयसि च । ३१ । प्राणिनां कालकृता अवस्था यौवनादिः वयः, तस्मिन् वर्तमानात् संख्यादेः 'हायन'अन्तात् बहुव्रीहेः स्त्रियां ङी भवति । द्विहायनी गौः । संख्यादेः इति किम् ? गतहायना । वयसि इति किम् ? द्विहायना शाला । चकारः 'बहुव्रीहे: इत्यस्य अनुकर्षगार्थः तेन उत्तरत्र न अनुवर्तते ॥ ३१॥ - अनन्त्ये अतः । ३२ । अनन्त्ये वयसि वर्तमानात् अकारान्तात् स्त्रियां ङी भवति । कुमारी। किशोरी। वधूटी। अभिन्नरजस्का पुरुषेग असंयुक्ता स्त्री कुमारी । 'वृद्धकुमारी' इति उपमानात् । अनन्त्ये इति किम् ? वृद्धा । 'बाला' 'वत्सा' इत्यादिः १ बहुराज्ञी, बहु० पा० । २ सुराज्ञी । सुराज्ञो नाम ग्रामः पा० । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy