________________
७८] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
वा बहुव्रीहेः । २० । ण-स्वर-अघोषपर वन्'अन्तात् बहुव्रीहेः स्त्रियां वा ङी भवति, तद्योगे च अन्तस्य रः । प्रियावावरी, प्रियावावा ॥ २० ॥
पादः । २१ । बहुव्रीहे: तन्निमित्त पात्'शब्दान्तात् स्त्रियां वा ङी भवति ।
द्विपदी, द्विपात् । तन्निमित्त पात्'शब्दविज्ञानं किम् ? पादम् आचष्टे पाद् त्रयः पादः अस्याः त्रिपात् ॥ २१ ॥
स्वाङ्गात् पूर्वपदात् अकृत-मित-जात-प्रतिपन्नात् । २२ ।
पूर्वपदात् स्वाङ्गात् परं 'कृत आदिवर्ज यत् क्तान्तम् तदन्तात् बहुव्रीहेः स्त्रियां ङी भवति ।
शङ्खभिन्नी । उरुच्छिनी । स्वाङ्गात् इति किम् ? शाङ्गरजग्धी, शाङ्गरजग्धा। 'कृत'आदिप्रतिषेधः किम् ? दन्तकृता । दन्तमिता । दन्तजाता । दन्तप्रतिपन्ना ।। २२ ॥
'पाणिगृहीती' इति पत्नी । २३ । 'पाणिगृहीती' इत्येवंप्रकारो ड्यन्तो बहुव्रीहिः साधुर्वेदितव्यः, पत्नी चेत् वाच्या स्यात् ।
पाणिगृहीती । करगृहीती । पाण्यात्ती । करात्ती पत्नी। पत्नी इति किम् ? पाणिगृहीता अन्या । पूर्वेणैव सिद्धे नियमार्थं वचनम् ॥ २३ ॥
अनाच्छादजातेः वा । २४ । अनाच्छादरूपजातिवाचिपूर्वपदात् 'कृत'आदिवर्ज'क्त'प्रत्ययान्तात् बहुव्रीहेः स्त्रियां ' वा ङी भवति ।
शाङ्गरजग्धी, शाङ्गरजग्धा । 'अनाच्छाद' इति किम् ? वस्त्रच्छन्ना । जातेः इति किम् ? मासजाता। 'कृत'आदिप्रतिषेधः किम् ? कुण्डकृता । कुण्डमिता । कुण्डजाता। कुण्डप्रतिपन्ना ॥ २४ ॥
श्नवतः नः । २५ । श्नादेशभाक् यः अन् तदन्तात् बहुव्रीहेः स्त्रियां वा ङी भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org