________________
नाम्नि पञ्चमः पादः
[७७ प्रवृद्धविलूनी, प्रवृद्धविलूना ॥ १२ ॥ श्येत-एत-हरित-भरित-रोहितात् वर्णात् तः नश्च । १३ । एभ्यः वर्णवाचिभ्यः स्त्रियां वा ङी भवति, तत्संनियोगे च तकारस्य नकारः ।
श्येनी, श्येता । एनी, एता । हरिणी, हरिता। भरिणी, भरिता । रोहिणी, रोहिता। वर्णात् अन्यत्र श्येता इत्यादि ॥ १३ ॥
क्नः असित-पलितात् । १४ । आभ्यां वर्णवाचिभ्यां परः स्त्रियां वा ङी भवति, तत्संनियोगे च तकारस्य 'क्न' आदेशः । असिक्नी, असिता । पलिक्नी, पलिता ॥ १४ ॥
__ ऋतः अतिमृ'आदेः। १५ । 'तिसृ'आदिवर्जात् ऋकारान्तात् परः स्त्रियां ङी भवति । की । प्रसवित्री । अ 'तिसृ'आदेः इति किम् ? तिस्रः । चतस्रः ।
स्वसा। दुहिता। ननान्दा। याता। माता । 'तिसृ-चतसृ' शब्दयोः इह पाठात् सन्निपातपरिभाषा नोपतिष्ठते तेन या, सा, अतिदध्न्या कन्यया इत्यादि सिद्धम् ॥१५॥
न्-अश्वः । १६। नकारान्तात् 'अञ्' अन्ताच्च परः स्त्रियां ङी भवति । दण्डिनी। प्राची ॥ १६ ॥
न मनः। १७। 'मन् ' अन्तात् स्त्रियां ङी न भवति । दामानौ । सुशर्माणौ स्त्रियौ ॥ १७ ॥
अधातु-उत्-ऋदितः । १८ । अधातोः ‘उदित् ' अन्तात् ' ऋदित् ' अन्ताच्च परः स्त्रियां ङी भवति । भवती । पचन्ती । अधातुग्रहणं किम् ? सुकन् स्त्री ॥ १८ ॥
ण-स्वर-अघोषात् वनः रश्च । १९ । णकारान्तात् स्वरान्तात् अघोषान्ताच परो विहितः यः 'वन् 'प्रत्ययः तदन्तात् स्त्रियां ङी भवति, तद्योगे च अन्तस्य रेफः ।
अवावरी । धीवरी । मेरुदृश्वरी । विहितविशेषणविज्ञानात् शर्वरी ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org