________________
नाम्नि षष्ठः पादः
[ ९३ शतस्य पणायति, शतं पणायति-क्रय-विक्रये द्यूतपणत्वे वा विनियुङ्क्ते इत्यर्थः । दशानां व्यवहरति, दश व्यवहरति । विनिमेय-द्यूतपणम् इति किम् ? देवं पणायतिस्तौति-इत्यर्थः । शलाका व्यवहरति-विगणयन् गोपायति-इत्यर्थः । वचनभेदात् यथासंख्याऽभावः ॥ २१ ॥
उपसर्गाद दिवः । २२ । उपसर्गात् परस्य दीव्यतेः विनिमेय-छूतपणौ वा कर्मसंज्ञौ भवतः ।
शतस्य प्रदीव्यति, शतं प्रदीव्यति । उपसर्गाद् इति किम् ? शतस्य दीव्यति । विनिमेय-द्यूतपणम् इति किम् ? शलाकां प्रदीव्यति-विगणयन् अपहरति-इत्यर्थः ॥२२॥
न । २३ । दीव्यतेः विनिमेय-द्यूतपणौ कर्मसंज्ञौ न भवतः उपसर्गपूर्वस्य विकल्पविधानात् अनुपसर्गस्य अयं निषेधः ।
शतस्य दीव्यति । विनिमेय-द्यूतपणम् इति किम् ? देवं दीव्यति-स्तौतिइत्यर्थः ॥ २३ ॥
करणं करणं च । २४ । दीव्यतेः करणम् कर्म च करणं च भवति-कर्म-करणसंज्ञे युगपद् भजतिइत्यर्थः ।
अक्षान् दीव्यति । अक्षाणां देवनम् । अत्र कर्मत्वे द्वितीया-षष्ट्यौ । अक्षर्दीव्यति । अक्षदेवनाः । अत्र करणत्वात् तृतीया-अनटौ । 'वा' इति सिद्धे 'करणं च' इति वचनं युगपत् संज्ञाद्वयसमावेशार्थम् । अर्देवयते मैत्रः चैत्रेम । अत्र करणत्वात् तृतीया, कर्मस्वाञ्च नित्याऽकर्मलक्षणं अँणिकर्तुः कर्मत्वम् देवयतेश्च “प्राणिनि अणिञः नाप्यात् णिञः" [आख्या०द्वितीयः पादः सू० ७५ ] इति अकर्मलक्षणं परस्मैपदं च न भवति ॥२४ ॥
स्वतन्त्रः कर्ता । २५। क्रियासिद्धौ यः स्वतन्त्रः कर्ता स कर्तृसंज्ञः भवति ।
चैत्रेण कृतम् । अमीषां कारकाणाम् एकत्र युगपत् अनेकप्राप्तौं परं परं भवतिग्रामाय दत्त्वा तीर्थं गतः ॥ २५ ॥
१ वा नियु पा० । २ सूत्रे पण-व्यवह्रोः इति द्विवचनम् विनिमेय-द्यतपणम् इति एकवचनम इत्येवं वचनभेदः । ३ नाम्नः षष्ठपादस्थितदशमसूत्रेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org