________________
नाम्नि पञ्चमः पादः
गोत्रलवे वृद्धे । २ प्रथमप्रकाशकपुरुषाभिधानः तदपत्यसंतानो गोत्रम् । अप्रधानं गोत्रं गोत्रलवः । तस्मिन् वृद्धसंज्ञके अनार्षे स्त्रियां विहितयोः अण्-इञोः व्यङ् आदेशो भवति ।
घुणिकस्य अपत्यं वृद्धं पौणिक्या । 'पुणिक आदयः कुलाख्या अनृषिप्रभवा अपि लोके गोत्राणि' इति उच्यन्ते तत्र अप्राधान्यविवक्षायाम् अयम् अणे । वृद्ध इति किम् ? अनन्तरापत्ये न भवति-पौणिकी । अनार्षे इति किम् ? गौतमी । अगुरु-उपोत्तमार्थ वचनम् ॥ २ ॥
रूढादिभ्यः । ३। एभ्यः स्त्रियाम् अण्-इञोः ध्यङ् आदेशो भवति । रूढस्य अपत्यम् स्त्री रौढ्या । क्रोड्या । रूढ क्रोड चोपयत इत्यादि ।। ३ ॥
दैवयज्ञि-शौचिवृक्षि-सात्यमुनि-काण्ठेविद्धेः वा । ४। एषां स्त्रियाम् इञन्तानां व्यङ् अन्तादेशो वा भवति ।
दैवयज्ञी, देवयज्या । शौचिवृक्षी, शौचिवृक्ष्या । सात्यमुग्री, सात्यमुग्र्या । काण्ठेविद्धी, काण्ठेविया ॥ ४ ॥
- आत् आप् । ५। अकारान्तात् स्त्रियां वर्तमानात् परः 'आप' प्रत्ययो भवति । कारीषगन्ध्या । या । सा ॥ ५ ॥
अजादेः।६। 'अज' आदः संबन्धिन्यां स्त्रियां ततः परः 'आप' प्रत्ययो भवति ।
अजा। एडका । चटका। कोकिला । मूषिका। अत्र जातिलक्षणस्य यो बाधा । बाला । पाका । हेडा । वत्सा । मन्दा । विलाता । कन्या । अत्र वयोलक्षणस्य । पूर्वापहाणा । अपरापहाणा । अत्र टिल्लक्षणस्य, निपातनात् णत्वम् । त्रिफला । अत्र द्विगुलक्षणस्य । कुच्चा । देवविशा । उष्णिहा । अजादेः संबन्धिन्यां स्त्रियाम् इति किम् ? पञ्चानाम् अजानां समाहारः पञ्चाजी ॥ ६ ॥
ऋचि पादः पात्-पदे । ७। १ "अयम् म्यङ' १।३।३ । शाक. अमोघवृत्तौ । २ 'डी' प्रत्ययस्य । ३ अत्र हलन्तत्वात् " आत् आप्" इति पञ्चमसूत्रेण अप्राप्तिः । “अत्र हलन्तत्वात् “अतः" इत्यप्राप्तिः” १।३।१३ । शाक• अमोघवृ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org