________________
७४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'मत्स्य'शब्दस्य संबन्धिनः यकारस्य ङीप्रत्यये परे लुग् भवति ।
मत्सी । मत्स्यः नाम कश्चित् तस्य अपत्यम् इञ्-मात्सी, ङ्यादेशो हि ङीग्रहणेन गृह्यते ॥ ८२ ।।
तद्धितस्य व्यञ्जनात् । ८३ । तद्धितप्रत्ययस्य संबन्धिनः यकारस्य व्यञ्जनात् परस्य ङीप्रत्यये परे लुग् भवति ।
गार्गी । वात्सी। तद्धितस्य इति किम् ? ऋश्यी। व्यञ्जनात् इति किम् ? कारिकेयी ॥ ८३ ॥
सूर्य-आगस्त्ययोः ईये च । ८४ । 'सूर्य'-'आगस्त्य'शब्दयोः यकारस्य ङीप्रत्यये ईये च परे लुग् भवति ।
सूर्यस्य भार्या सूरी । आगस्ती । सूर्यस्य इयं सौरी, आगस्ती प्रभा । सौरीयः । आगस्तीयः । ईये च इति किम् ? सौर्यः । आगस्त्यः ।। ८४ ॥
इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ नाम्नि चतुर्थः पादः समाप्तः ॥
नाम्नि पञ्चमः पादः गुरु-उपोत्तमस्य अनार्षे अपत्ये स्त्रियाम् अण्-इस्रः व्यङ् । १।
_ 'उत्तम'शब्दः अव्युत्पन्नः स्वभावात् त्रिप्रभृतीनाम् अन्त्यमाह, तत्समीपम् गुरु उपोत्तमं यस्य तस्य अनार्षे अपत्ये स्त्रियां विहितौ यौ अण्-इौ तदन्तस्य व्यङ् आदेशो भवति ।
करीषगन्धेः अपत्यं कारीषगन्ध्या । औडुलोम्या । दीर्घग्रहणम् अकृत्वा गुरुग्रहणम् अनेकव्यञ्जनव्यवधानेऽपि यथा स्यात् इत्येवमर्थम् अन्यथा वचनात् एकव्यञ्जनव्यवधाने एव स्यात् । गुरु-उपोत्तमस्य इति किम् ? औपगवी । अनार्षे इति किम् ? वासिष्ठी । अपत्ये इति किम् ? अहिच्छत्रे जाता आहिच्छत्री। स्त्रियाम् इति किम् ? निर्वाराहिः स्त्री । अण्-इञ इति किम् ? आतभागी। विदादि 'अञ्' । उकारः अन्तादेशार्थः ॥ १ ॥
१ उपोत्तमम्-उपान्श्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org