________________
नाम्नि चतुर्थः पादः
[७३ तिसृणाम् । चतसृणाम् । षण्णाम् । चतुर्णाम् । 'घ्-रः' इति प्रतिषेधात् एकवर्णव्यवधानेऽपि दीर्घः–पञ्चानाम् । सप्तानाम् । 'दधिनाम' 'दण्डिनाम' इति अनर्यकत्वात् न भवति ॥ ७६ ॥
नुः वा । ७७। 'नृ'शब्दस्य नामि परे दीर्घः वा भवति । नृणाम् , नृणाम् ॥ ७७ ॥
संख्या-वि-सायात् अहस्य अहन् ौ । ७८ । संख्यावाचिनः वि-सायशब्दाभ्यां च परस्य 'अह्न'शब्दस्य ङौ परे अहन् आदेशो वा भवति ।
द्वयोः अहोः भवः द्वचह्नः तस्मिन् द्वयह्नि, द्वयहनि, द्वयते । तावदह्नि, तावदहनि, तावदहे । विगतम् अहः व्यह्नः तस्मिन् व्यह्नि, व्यहनि, व्यते । सायम् अह्नः सायाह्नः तस्मिन् सायाह्नि, सायाहनि सायाह्ने । संख्या-वि-सायात् इति किम् ? मध्याह्ने ॥ ७८ ॥ शसादौ दन्त-उदक-पाद-नासिका-हृदय-असूक-यूष-दोष-यकृत् -शकृतः दत्-उदन-पद-नस-हृद्-असन्-यूषन्-दोषन्
यकन्-शकन् । ७९ । 'दन्त'आदीनां शसादौ परे यथासंख्यं 'दत्' इत्यादयः आदेशा वा भवन्ति ।
दतः, दन्तान् । उद्दा, उदकेन । पदः, पादान् । नसा, नासिकया। हृदि, हृदये । अस्ना, असृजा । यूष्णा, यूषेण । दोष्णा, दोषा । यक्ना, यकृता । शक्ना, शकृता ॥ ७९ ॥
मास-निशा-आसनस्य लुक् । ८० । एषाम् अन्तस्य शसादौ परे लुग् भवति वा । मासः, मासान् । निशा, निशया । आसनि, आसने ॥ ८० ॥
झ्याम् अतः । ८१ । ङीप्रत्यये परे पूर्वस्य अतः लुग् भवति । गौरी । कुरुचरी । अतः इति किम् । पवी ।। ८१ ।।
मत्स्यस्य यः । ८२ ।
१०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org