SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । इयम् । परमेयम् । इयकम् ॥ ६९ ॥ किमः कः 'तम्'आदौ व । ७० । त्यदां संबन्धिनि स्यादौ तसादौ च प्रत्यये परे किमः 'क' आदेशो भवति । कः, कौ, के । कदा । कर्हि । स अकः' अपि-कः, को, के । त्यदां संबन्धिनि इति किम् ? प्रियकिमौ । 'किम्' इत्यत्र नित्यत्वात् प्रथममेव श्लुक् ॥ ७० ॥ आ द्वेः । ७१। 'द्वि' शब्दम् अभिव्याप्य त्यदां तत्संबन्धिनि स्यादौ तसादौ च परे अकारः अन्तादेशो भवति । स्यः, त्यौ, त्ये । सः, तौ, ते । तत्र । तदा । परमत्यौ । द्वौ। त्यदां संबन्धिनि इति किम् ? प्रियत्यदौ । आ द्वेः इति किम् ? भवान् ॥ ७१ ॥ तः सौ सः।७२ । त्यदां द्विपर्यन्तानां संबन्धिनि सौ परे तकारस्य सकार आदेशो भवति । स्यः, स्यकः, परमस्यः । सः, सकः । सौ इति किम् ? त्यौ। त्यदां संबन्धिनि इति किम् ? प्रियैतद् देवदत्तः ।। ७२ ॥ __अदसः दः । ७३ । त्यदां संबन्धिनि सौ परे अदसः दकारस्य सकारो भवति । असौ, असकौ ।। ७३ ।। और सः सिलुक् च । ७४ । त्यदां संबन्धिनि सौ परे अदसः सकारस्य औकारो भवति, सिलुक् च । असौ, असकौ, हे असको ! ॥ ७४ ।। असुका वा अकि । ७५ । त्यदां संबन्धिनि सौ परे अदसः अकि सति ‘असुक' इति वा निपात्यते । असुकः, असकौ, हे असुक !, हे असकौ ! ।। ७५ ॥ स्वरस्य दीर्घः नामि अतिसृ-चतसृ-ष-रः । ७६ । आमादेशे नामि परे तिस-चतसृ-षकारान्त-रेफान्तवर्जितस्य शब्दसंबन्धिनः स्वरस्य दीर्घा भवति । श्रमणानाम् । मुनीनाम् । साधूनाम् । पितृणाम् । अतिसृ-चतसृ-ष्-रः इति किम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy