________________
विशेषावश्यकभाष्ये
[ नि० ४४७
वेव दण्डादिसमेतः । न चास्य कर्मान्तरेणान्यदुपकरणमस्ति । अथवाऽयं प्रयोगः - ना [य] - मकर्माssरभते, एकत्वादेकपरमाणुवत् । एवैमशरीरत्वादाकाशवत्, निःक्रियत्वाद्, अमूर्त. त्वात्, सर्वगतत्वादित्यादि । अथ मतिः - ईश्वरः शरीरखामारssभते । तच्छरीरारम्भेऽपि तुल्यता । ननूक्तम् 'अकर्मा नारभतेऽनुपकरणत्वात्' इत्यादि । अथान्यस्तच्छरीरारम्भाय व्याप्रियते । सोऽपि हि शरीरवानशरीरो वा ? यद्यशरीरः, नारभते निरुपकरणत्वादित्यादितः । अथ शरीरवांस्तच्छरीरारम्भेऽपि तुल्यता । अथ तच्छरीरमन्यः शरीरखानारभते । अतस्तस्याप्यन्यस्तस्याप्यन्यः इत्यनवस्था, अनिष्टं चैतत् सर्वम् || २०९७ ॥
I
३६६
अधव सभाव मण्णसि विष्णाणघणादिवेतवंकातो । त बहुदो गोतम ! ताणं च पताणमयमत्थो || २०९८||
अधव गाहा । अथवा "विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय" इत्यादिवेदवचनप्रामाण्यात् स्वभावोऽभिप्रेतस्तथापि हि भूयांसो दोषाः प्रसजति । कथम् इह स्वभावो हि वस्तुविशेषोऽकारणता वस्तुधर्मो वाभ्युपगम्येत ? सर्वथा च दोषः । तत्र भावस्वभावो वस्तुविशेषः सर्वप्रमाणगोचरातीतत्वात् स्वरविषाणवत् । अथासौ सर्वप्रमाणविषयातीतोऽप्यस्ति; कर्म किमिति नास्ति ? स्वभावास्तित्वे वा यो हेतुः स कर्मणोऽपि समानः । अथवा कर्मणोऽभिधानं स्वभाव इति तन्नामास्ति । न संज्ञामात्रविप्रतिपत्तिः । स च मूर्तिमान - मूर्त्तो वा ? यदि मूर्त्तिमान्, अस्य कर्मणः को विशेषः ? कर्मैव संज्ञाविशिष्टं तत् । अथामूर्तः; नारम्भको निरूपकरणत्वात् इत्यादितः । न च मूर्तिमतः शरीरादिकार्यस्यामूर्त कारणमनुरूपमाकाशवत् । अथाऽकारणता नाम स्वभावः । अतोऽभिदध्मः - नाऽकस्मि[क]न्निर्गतः(तिः) शरीरादिकार्यस्यै । [ नाकस्मिकमभूत् ] शरीरम्, आदिमत्प्रतिनित्यताकारत्वात् । इह यदादिमत् प्रतिनियताकारं च न तदाकस्मिकं यथा घटः । यच्चाकस्मिकं न तदादिमत् प्रतिनियताकारं च । यथाभ्रादिविकारः । प्रतिनियताकारत्वादेव चोपकरणसमेतकर्तृकं शरीरं घटवत् । न च कर्मणोऽन्यदुपकरणं सम्भाव्यते । अथ वस्तुनो धर्मः स्वभावः । तथाप्यसौ यद्यात्मधर्मो विज्ञानादिवन्न शरीरकारणममूर्त्तत्वादाकाशादिवत् । अथ मूर्त्तिमद्धर्मः । न पुनलपर्यायमतिवर्त्तते । कर्माऽपि हि पुद्गलपर्यायाऽनन्यरूपमेवेत्यविप्रतिपत्तिः । न चैषां विज्ञानघनादिपदानामयं वाक्यार्थो यो भवदभिप्रेतः । किं तर्हि ? विज्ञानघनाख्यः पुरुष एवायं भूतेभ्योऽर्थान्तरम् । भयं च कर्त्ता । कार्य च शरीरम् । अत एव च तावत् कर्त्तान्तरं करणमवसीयते, 'कर्तृकार्यसद्भावात् । इह यत्र कर्तृकार्य सद्भाव
१. एकम- इति प्रतौ । २ वुत्ताओ को हे त । ३ताव को है । ४ स्यामूर्तकं श० - इति प्रतौ । ५. दानादि० - इति प्रतौ । ६. न्तरक० इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org