________________
३६२
विशेषावश्यकभाष्ये
[नि० ४४७अधव गाहा । अथवा प्रागेवास्माभिः प्रसाधितं कर्म कार्यस्वाद् घटस्येव परमाणवः । तदेवेह क्रियाफलमनुमेयं ताभ्यो भिन्नमिति ॥२०७९॥
आह गणु मुत्तमेवं मुत्तं चिय कज्जमुत्तिमत्तातो । इध जह मुत्तत्तणतो घडस्स परमाणवो मुत्ता ॥२०८०॥ ____ आह गाहा । आह-यदि कार्यात् कर्म प्रसाध्येत शरीरादिकार्यस्य मूर्तिमत्त्वात् कर्मापि मूत्तिमत् प्रसजति । उच्यते-इदमस्माभिः साध्यं तत् साधु भवतैव प्रसाधितम् | सत्यमिह मूर्तिमदेव कर्म, तत्कार्यस्य शरीरादेः मूर्तिमत्त्वात् । इह यस्य कार्य मूर्तिमत् तस्य कारणमपि मूत्तिमद् दृष्टम् , यथा घटस्य परमाणवः । यच्चामूते न तस्य कारणे मूर्तिमत्त्वम् , यथा विज्ञानकारणस्यात्मनः । समवायिकारणं चेहाधिक्रियते, न निमित्तमात्रमालोकरूपादि । ____ आह-ननु सुखदुःखादयोऽपि कर्म कार्यम् । अतस्तदमूर्तिमत्त्वादमूर्त्तत्वमपि कर्मणः । न च मूर्त्तामूर्तमस्ति । उच्यते - ननूक्तमिह समवायिकारणमधिक्रियते । सुखदुःखादयश्चात्मधर्मास्तेषामात्मैव समवायिकारणम्, कमैषां निमित्तकारणमन्नादिवदित्यदोषः ॥२०८०॥ तध सुहसंवित्तीतो संबंधे वेतणुब्भवातो य । बज्झबलाधाणातो परिणामातो य विष्णेयं ॥२०८१॥ आहार इवाणल इव घडो व जेहादिकतबलाधाणो। खीरमिवोदाहरणाई कम्मरूइत्तगमगाइं ॥२०८२॥
तध गाहा । आहार गाहा । इतश्च मूर्तिमत् कर्म, तत्सम्बन्धे इह मुखसंवित्तेः । इह यत्संबन्धे सुखसंवित्तिर्ज्ञायते तत् मूर्तिमत् , यथाहारः । यच्चामूर्त न तत्सम्बन्धे सुखसं विदस्ति, यथाकाशसम्बन्धे । तथा, तत्सम्बन्धे वेदनोद्भवात् । इह यत्सम्बन्धे वेदनोद्भवो भवति तन्मूर्तिमद्यथाग्निः । यच्चामूर्त न तत्सम्बन्धे वेदनोद्भवः, यथाऽऽकाशसम्बन्धे । तथाऽनात्मविज्ञानादित्वे सति मूर्तिमबलाधानात् । इह यस्याऽनात्मविज्ञानादेः मूर्त्तिमता बलाधानं जन्यते [स] मूर्तिमान् यथा स्नेहादिबलाधानो घटः । यच्चामूर्त न तस्याऽनात्मविज्ञानादे मूर्त्तिमता बलाधानक्रिया यथाऽऽकाशस्य । तथाऽनात्मादिपरिणामात् । इह यदनात्मादिस्वभावं परिणामि तन्मूर्तिमद् यथा पयः । यच्चामूर्त न तदात्मस्वभावं परिणामि यथाकाशम् ॥२०८१-८२॥
१ ताद्यौ- इति प्रतौ। २ कारण-इति प्रतौ। ३ घडु व्य को हे। ४ लाहाणे त । ५ रूवि को हे त।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org