________________
नि० ४४७]
गणधरवादे कर्मसिद्धिः। सोम्म जतो च्चिय जीवा पायं दिटुप्फलामु वटुंति । अद्दिष्टफलाओ वि' हु ताओ पडिवज्ज तेणेव ॥२०७५।। ___ सोम्म गाहा । सौम्य यत एव प्राणिनः प्रायेण दृष्टफलास्वेव क्रियास्वनुप्रवर्त्तन्ते नादृष्टफलासु । अत एव ताः खल्वदृष्टफला अपीति प्रतिपद्यस्व । ॥२०७५।। कोऽभिप्रायः ? इधरा अदिट्टरहिता सव्वे मुच्चेज्ज ते अयत्तेण । अहिट्ठारंभो चेव किलेसबहलो भवेज्जा हि ॥२०७६॥
इधरा गाहा । इतरथाऽदृष्टफलाभावादनिष्ट क्रियानुष्टातारः सर्व एव अयत्नेन मुच्येरन् । दानाद्यदृष्टार्थक्रियारम्भाय वा पापबहुलो भवेत् । कथम् ? इहेप्टक्रियानुष्टातारस्तत्क्रियाफलविपाकमनुभवन्तस्तत्प्रचोदिताः पुनरिष्टास्वेव क्रियास्वनुप्रवर्तन्ते । ततश्च भूयस्तत्फलविधाकानुभूतिः । पुनरिष्टक्रियानुष्टानमित्येवमनन्तसन्ततिमयः संसारः । आह-तथास्तु । किं नो बाध्येत-यद्यनिष्ट क्रियानुष्टातारो मुच्येरन् इष्ट क्रियानुष्टातृणां चानन्तः संसारः स्यात् ? उच्यते-नन्विदमेव बाध्यते यदिष्टक्रियानुष्टातारस्तत्फलविपाकानुभुज एवोपल येरन् , अशुभक्रियानुविधायिनोऽनि. एफलभुजश्च न स्युः । न च तत्तथा ॥२०७६।।
जमणिट्ठभोगभाजो बहुतरया जं च णेइ मतिपुव्वं । अहिट्ठाणि?फलं कोइ वि किरियं समारभते ॥२०७७।।
जम० गाहा। यतश्चेहानिष्टभोगभाजो भूयांसः, न च कश्चिदपि बुद्धिपूर्वमदृष्टानिष्टफलां क्रियामारभते । अदृष्टमनिष्टं च फलमस्याः सेयमदृष्टाऽनिष्टफलेति ॥२०७७॥
तेण पडिवज्ज किरिया अद्दिष्टे[१३६-द्वि०]गंतियप्फला सव्वा । दिठाणेगंतफला सा वि अदिट्ठाणुभावेणं ।।२०७८॥
तेण गाहा। तेन सौम्य प्रतिपद्यस्व संसारिणः सर्वक्रिययाऽवश्यमदृष्टफलया भवितव्यम् । दृष्टफलतायामनेकान्तस्तत्फलविघातश्चाऽदष्टानुभावत एव, अन्यथा हि समानमीहमानानामेकस्य विघातो न युक्तरूपः ॥२०७८।। 'अधव फलातो कम्मं कज्जत्तणतो पसाहितं पुव्वं । परमाणवो घडस्स व किरियाण तयं फलं भिणं ॥२०७९॥
१ ओ च्चिय ता' त । 'ओ विय ता हे । २ अपयत्तेणं को हे । ३ केसब जे हे । ४ भइ त को हे । ५ अहवा त हे को। ६ लाउ हे को।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org