________________
विशेषावश्यकभाग्ये
[न० ४४७
यथाऽण्वादि । यच्चैषां दानादिक्रियाविशेषाणां फलम् , तत् कर्म । तस्मादस्ति कर्म । स्यात्-विपक्षेऽपि दर्शनार्दनैकान्तिकोऽयम् , यतः कृष्यादिक्रियाणां हि कदाचिद्वैफल्यमपि दृष्टम् । तच्च न, फलवत्वे सति तदारम्भदर्शनादज्ञानाच्चाफलत्वदर्शनात् । दानादीनामपि तत्स्वभावत्वाऽभ्युपगमाददोषः । स्यान्मतिः-यथा कृष्यादिक्रिया दृष्टप्रयोजनास्तथा दानादयोऽपि मनःप्रसादादिमात्रफला एव भविष्यन्ति । किमिहादृष्टफलपरिकल्परूपा:( कल्पनया )तच्च न ॥२०७०॥
[१३६-प्र०] किरियासामण्णातो जं फलमस्सावि तं मतं कम्मं । तस्स परिणामरूवं सुह दुक्खफलं जतो भुज्जो ॥२०७१।।
किरिया० गाहा । क्रियासामान्यात् मनःप्रसादादिरूपमपि क्रियाविशेष एव । तेनापि हि फलवतावश्यं भवितव्यम् । अस्यापि हि यत् फलं तत् कर्म । तत्परिणामात्मकं तत्फलमुच्यते भूयः सुख-दुःखादि । स्यात् - प्रागभ्युपगम्य दानादिक्रियाफलं कर्म, इदानीं मनःप्रसादादिक्रियाफलमिति विरुद्धमुच्यते । तच्च न, कारणे कार्योपचारात् पर्जन्य(न्ये) तन्दुलवर्षणवत् ॥२०७१।।
होज्ज मणोवित्तीए दाणातिकिये व जति फलं बुद्धी । तं ण णिमित्तत्तातो पिण्डो व्य घडस्स विष्णेयो ।।२०७२।।
होज्ज गाहा । स्यान्मतिः-मनोवृत्तरपि प्रत्यावृत्या दानादिक्रियैव फलं भविष्यति । तच्च न, निमित्तत्वात् । न हि निमितं फलमिष्टं घटस्य पिण्डवत् । नैमित्तिकं तूपलभ्यते पिण्डस्य घटवत् ॥२०७२।।
एवं पि दिट्टफलता 'किया ण कम्मप्फला पसत्ता ते । सा तम्मत्तफले च्चिय जय मंसफलो पसुविणासो ॥२०७३।। ___ एवं गाहा । आह--एवमपि दृष्टार्थानां क्रियाणामदृष्टफलाभावप्रसङ्गः, दृष्टेन फलेनाभिमतप्रयोजनत्वात्, पशुविशसनवत् । यथेह पशुविशसनक्रिया मांसाशना. याऽऽरभ्यते नाऽधर्मायेत्यतस्तस्यास्तन्मात्रफलतैवेष्यते, नाधर्मफलता ॥२०७३।।
पायं च जीवलोओ वट्टति दिदृप्फलासु किरियामु।। अहिट्ठफलासु पुणो वदृति णासंखभागो वि ॥२०७४॥
पायं गाहा । प्रायं चायं प्रागिलोको दृष्टास्वेव क्रियास्वनुप्रवर्तते, दानादिष्वदृष्टफलासु कतिपयेऽनुप्रवर्तते । हिंसादीनां चानिष्ट क्रियाणामदृष्टफलाभावाद्दानादीष्टक्रियाणामयदृष्टफलाभावो भविष्यति ॥२०७४।।
१ नादिन-इति प्रतौ । २ किरिया को हे। ३ तम्मित्त त । सम्मेत्त है। ४ फले त । ५ पुण को हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org