________________
३५९
नि० ४४७ ]
गणधरवादे कर्मसिद्धिः। मस्मत्सर्वज्ञता। ततश्चास्मत्प्रत्यक्ष कर्मेति। अथवा भवतोऽपि हि प्रत्यक्षमेव कर्म तदनुभूतिप्रत्यक्षत्वात् । इह यस्यानुभूतिः प्रत्यक्षा, तत्प्रत्यक्षम् , यथा रूपादयः । कर्मापि च सुखदुःखानुभूत्याऽनुभूयते, तन्निमित्तत्वात् सुखदुःखानुभूतेः । तस्मात् प्रत्यक्षं कर्मेति । आह-ननु तदनुभूतेरित्ययमसिद्धः, न प्रतिपद्यामहे सुखदुःखादिना कर्मणोऽनुभूतिरिति ॥२०६१-६६॥
अस्थि सुहदुक्खहेतू' कज्जातो बीयमंकुरस्सेव । सो दिट्ठो चेव मती वभिचारातो ण तं जुत्तं ॥२०६७॥
अस्थि गाहा । उच्यते-सुखदुःखानुभूतेहेतुरस्ति, कार्यत्वादनुरस्येव बीजम् , यश्च हेतुरस्यास्तत्कर्म तस्मादस्ति कर्मेति । स्यान्मतिः-सुखदुःखानुभूतेष्ट एव हेतुरि. ष्टानिष्टविषयप्राप्तिमयो भविष्यति । तत् किमिह कर्मपरिकल्पनया ? न हि दृष्टं निमित्तमपास्य निमित्तान्तरान्वेषणं युक्तरूपम् । उच्यते-न, व्यभिचारात् ।।२०६७॥
जो तुल्लसाधणाणं फले विसेसो ण सो विणा हेतुं । कज्जत्तणतो गोतम ! घडो व्व हेतू य सो कम्मं ॥२०६८॥ ___ जो तुल्ल० गाहा । इह यो हि द्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोबहनां वा तत्फले विशेषो दुःखानुभूतिमयः, यश्चानिष्टसाधनसमेतयोरेकस्य तत्फलविघातविशेषो नासौ हेतुमन्तरेण सम्भाव्यते। न च तद्धतुरेव] वा युक्तः, साधनविपर्ययात् । परिशेपात्-हेतुमानसौ, कार्यत्वाद्, घटवत् । यश्च समानसाधकसाधनसमेतयोस्तत्फलविशेषहेतुस्तत् कर्म । तस्मादस्ति कर्म ॥२०६८॥
बालसरीरं देहतरपुव्वं इन्दियातिमत्तातो । जध बालदेहपुन्यो जुवदेहो पुवमिह कम्मं ॥२०६९॥
बाल० गाहा । अन्यदेहपूर्वकमिदं बालशरीरम्, इन्द्रियादिमत्त्वात् । इह यदिन्द्रियादिमत् तदन्यदेहपूर्वकं दृष्टम् , यथा बालदेहपूर्वकं युवशरीरम् । यच्छरीरपूर्वकं चेदं बालशरीरकं तत् कर्म । तस्मादस्ति कर्मेति । इन्द्रियादिमत्त्वादित्यादिग्रहणाच्चेतनत्वात्, सुखित्वात्, दुःखित्वात्, प्राणापाननिःशेषोन्मेषजीवनादिमत्त्वादिति ॥२०६९॥
किरियाफलभावातो दाणादीणं फलं किसीए व्य । 'तं चिय दाणादिफलं मणप्पसादाति जति बुद्धी ॥२०७०॥
किरिया० गाहा । फलवन्तो दानादयः, चेतनरूपक्रियारूपत्वात् । इह यच्चे. तनक्रियारूपं तत्फलवदृष्टम् , यथा कृष्यादिक्रिया । यच्चाफलं न तच्चेतनक्रियारूपम्,
• - - . . गे से। , mon- - --- - . ....
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org