________________
३५६ विशेषावश्यकभाष्ये
[नि०४४३. ताई गाहा। [पुवागाहा ] । तेभ्यः समुत्थाय तान्येव हि विनाशव्यवधानाभ्यां विज्ञेयभावेन विनश्यन्त्यनुविनश्यति । अथवा तान्येवानुप्राप्यानुप्रकाश्य वा विनश्यन्त्यनुविनश्यति । स च प्रागेतनविज्ञानात्मनोपरमति पाश्चात्यविज्ञानात्मना चोत्पद्यते । सामान्यविज्ञानात्मना द्रव्यतयाऽवतिष्ठते इत्युत्पाद-व्यय-ध्रौव्यधर्मा विज्ञानघनः ॥२०४९-५०॥
ण य पेच्चणाणसण्णाऽवतिट्टते संपतोवयोगातो। विण्णाणघणाऽभिक्खो जीवोऽयं वेदपतविहितो ॥२०५१।। ___ण य गाहा । न प्रेत्य संज्ञास्तीति-न चेह प्रागेतनी घटविज्ञानादिसंज्ञा अवतिष्ठते, साम्प्रतविज्ञानोपयोगविनितत्वात् । स एष विज्ञानघनाख्यो जीवो वेदविहितः प्रतिपद्यस्वैवम् ॥२०५१॥
एवं वि भूतधम्मो णाणं तब्भावभावतो बुद्धी । तण्णो तदभावम्मि विजं गाणं वेतसमयम्मि ॥२०५२।। ___ एवं गाहा । स्यान्मतिः-एवमपि हि भूतधर्म एव ज्ञानम् , तद्भावे भावात् , तदभावे चाऽभावात् । तेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यतीति वचनात् भूतनिमित्तप्रादुर्भावात् , यदत्यये चाऽप्रादुर्भावादित्यर्थः । तच्च न, यस्मात्तदत्ययेऽपि श्रुतेवि( श्रुतौ वि)ज्ञानमुक्तम् ॥२०५२॥
अत्यमिते आतिच्चे चन्दे संतासु अग्गिवायासु । किं जोतिरयं पुरिसो अप्पज्जोति ति णिहिटो ॥२०५३।।
अत्थ० गाहा । तद्यथा “अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ, शान्तायां वाचि, किं ज्योतिरेवायं पुरुषः ? आत्मज्योतिः सम्राडिति इहोवाच" [बहदा०४.३.६] । ज्योतिरिति ज्ञानमाह। आत्मैव ज्योतिरस्य सोऽयमात्मज्योतिः ज्ञानात्मक इत्यर्थः । अतो न ज्ञानं भूतधर्म इति ॥२०५३।।
तदभावे भावातो भावे चाऽभावओ ण तद्धम्मो । जध घडभावाभावे विवज्जयातो पडो भिण्णो ॥२०५४॥
तद० गाहा । इतश्च न ज्ञानं भूतधर्मः, तदभावे भावाद्भावेऽपि चाभावात् । इह यदभावेऽपि यद् भवति, भावेऽपि च न भवति, न तत् तस्य धर्मो यथा घटस्येह पटः । यच्च यस्य धर्मः, न हि तत् तदभावे भवति, भावे च सर्वथा
१ नशतनि द्र- इति प्रतौ । २ 'भिक्खा जे । ३ °भिहिओ हे को त ।
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org