________________
३५५
नि० ४४३]
गणधरवादे जीवसिद्धिः । यनिमित्तपरिणामाङ्गीकरणं न व्यस्तानामिति यावत् । तान्येवानु विनश्यति तद्विनाशमनु विनश्यति । न यथात्मवादिनामात्मा न शरीरविनाशमनुविनश्यति । न प्रेत्य. संज्ञास्ति-प्रेत्यभावो नाम नारकादिः । स एवायं प्रेत्य नारको देवो वाऽभवन्मनुष्योधुना. संवृत्त इति न भवाद्भवान्तरसंक्रान्तिरस्तीत्युक्तं भवति ॥२०४३-४५॥
गोतम ! पतत्थमेवं' मण्णंतो णत्थि मण्णसे जीवं । वक्तरेसु अ पुणो भणितो जीवो जमथि त्ति ॥२०४६॥ अग्गिहवणातिकिरियाफलं च तो संसयं कुणसि जीवे । मा कुरु ण पदत्थोऽयं इमं पदत्थं णिसामेहि ॥२०४७।।
गोतम गाहा । अग्गि० गाहा । गौतमैकवाक्यतायामेषां पदानामेनमर्थमनुमन्यमानो नात्मानमर्थान्तरभूतं भूतेभ्योऽभिमन्यसे, यच्च वाक्यान्तरेषूक्तं "न ह वै सशरीरस्य प्रियाऽप्रिययोरपहतिरस्त्यशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः" इति, तथा "अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादि क्रियाफलं च नात्मन्यसति संभवे. दिति संशये यः) किमयमात्मास्ति नास्तीति ते । वयं ब्रमो मा कृथाः संशयमिह माचैवं प्रतिपत्थाः, नैषां पदानामेकवाक्यतायामयमर्थः । शृणु पदार्थ वक्ष्यामः ॥२०४६-४७|| [१३४-द्वि०] विण्णाणातोऽणणो विण्णाणघणो त्ति सव्वसों' वा वि । स भवति भूतेहिंतो घडविण्णाणादिभावेणं ॥२०४८॥
विण्णा० गाहा । ज्ञान-दर्शनोपयोगरूपं विज्ञानम् । ततोऽनन्यत्वादात्मा विज्ञानघनः, अथवा प्रतिप्रदेशमनन्तविज्ञानपर्यायसंघातात्मकत्वाद्विज्ञानघनः । विज्ञानघन एवेति विज्ञानघनानन्यत्वादवधारणार्थमात्मनः । अथवा शेषात्मधर्माणामपि चेतोवृत्त्यविरोधादि(द्वि)ज्ञानान्तर्भावोपदर्शनार्थ सर्वात्मलिङ्गोपसङ्ग्रहार्थं वा । एतेभ्यो भूतेभ्यो विद्यमानेभ्यो द्रव्यादिभ्यः, यतो नार्थमनालम्ब्य विज्ञानप्रसूतिरस्ति, अतो घटादिभ्यस्तद्विज्ञानभावेनोत्पद्यते ॥२०४८॥ ताई चिय भूताई सोऽणु विणस्सति विणस्समाणाई । अत्यंतरोवयोगे कमसो विष्णेयभावेणं ।।२०४९।। पुव्यावरविण्णाणोवयोगतो विगमसंभवसभावो । विण्णाणसंततीए विण्णाणघणोऽयमविणासी ॥२०५०॥ १ मेतं जे। २ संभावय सं० इति प्रतौ। ३ सव्वओ है।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org