SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ _ विशेषावश्यकभाष्ये [नि०४४३मुक्तसुखमश्नुते यथा सर्वाङ्गशीलिते विमुक्ताङ्गुल्यैकदेशः पुमान् । यश्च मुक्तो नासौ बहुतरोपनिबन्धनः, न च स्वल्पनिबन्धनो यथाऽशीलितः पुमान् ॥२०४०॥ जीवो तणुमेत्तत्थो जध कुंभो तग्गुणोवलंभातो । अधवाऽणुवलंभातो भिण्णम्मि घडे पडस्सेव ॥२०४१॥ जीवो गाहा । त्वक्पर्यन्तमात्रशरीरव्यापी जीवः, तत्रैव तद्गुणोपलब्धः। इह यस्य यावति गुणोपलम्भः स तन्मात्रो दृष्टो यथा घटः । यश्च यत्रासन्, न तस्य तत्र गुणोपलब्धियथाऽग्नेरम्भसि । अथवा न शरीरादन्यत्रात्मा तद्गुणानुपलम्भात् । इह यस्य यत्र गुणानुपलम्भः [न] स तत्रोपलभ्यते यथा घटात्मनि पटः । यश्च यत्रास्ते न तस्य तत्र गुणानुपलम्भो यथा स्वाकारे घटस्य ॥२०४१॥ तम्हा कत्ता भोत्ता बन्धो मोक्खो सुहं च दुक्खं च । संसरणं च बहुत्ताऽसव्वगतत्तेसु जुत्ताई ॥२०४२॥ तम्हा गाहा । तस्मात् कर्तृत्वादयो बहुत्वाऽसर्वगतत्वयोरात्मनोयुक्तरूपा नान्यथेति ॥२०४२॥ गोतम ! वेदपदाणं इमाणमत्यं च तं ण याणासि । जं विण्णाणघणो च्चिय भूतेहिंतो समुत्थाय ॥२०४३।। "मण्णसि मज्जगेसु व मतभावो भूतसमुदयम्भूतो । विण्णाणमेत्तमाता भूतेणुविणस्सति स भूयो ।२०४४॥ अत्थि ण य पेच्चसण्णा जं पुन्वभवेऽभिधाणममुंओ त्ति । जं भणितं ण भवातो भवंतरं जाति जीवो ति ॥२०४५।। गोतम गाहा । [मण्णसि गाहा] अत्थि० गाहा । गौतम ! न च त्वमेषां वेदपदानां वाक्यार्थं वेसि यदपदिश्यते "विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञास्तीति" । पृथिव्यादिभूतविज्ञानलवसमु. दायो विज्ञानघनः, पृथिव्यादिविज्ञानदेशानां पिण्डीभवनमिति यावत् । विज्ञानघन एवेत्यवधारणमात्मनो भूतातिरिक्तस्य विज्ञानगुणाश्रयस्याभावोपदर्शनार्थम् । एतेभ्यो भूतेभ्यः पृथिव्यादिभ्योऽन्यथा जीवपर्यायवचनोऽपि भूतशब्दस्तेभ्यो मा भूत, न विज्ञानात्मकसत्त्वसवातघनो जैनानामिवानेकसत्त्वविज्ञानसङ्घातो वनस्पत्यादिवत् । समुत्थायेति संभूयाऽभूतविज्ञानप्रादुर्भावमाह । पृथिव्यादिविज्ञानदेशानामपि समुदा १ ग्निरम्भसि । २ एतस्याः प्रतीकं स्वोपज्ञवृत्तौ न दृश्यते । अर्थानुरोधात् तु गाथया अत्र भाव्यम् । ३. 'मुगो त्ति त हे को। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy