________________
नि० ४४३ ]
गणधरवादे जीवसिद्धिः ।
तथोक्तं - " पुरुष एवेदं सर्वम्" इत्यादि । उच्यते गौतम ! युक्तमेतत् सर्वमूर्तिविशेपेष्वेकमाकाशमे कलिङ्गत्वान्न पुनरेवं प्रतिशरीरमेकलिङ्गो जीवः || २०३६ ॥
णाणा जीवा कुंभातयो व्व भुवि लक्खणादिभेदातो । सुह- दुक्ख-बंध मोक्खाभावो य जतो तदेगत्ते || २०३७।
गाणा गाहा । नानात्मानः, लक्षणभेदाल्लक्ष्यभेदो दृष्टो यथा घटादिभेदः, यच्चाभिन्नं न तस्य लक्षणभेदो यथाकाशस्य । सुखदुःखाद्यभावचैकत्वे सत्यात्मनः । ॥२०३७॥
जेणोवयोगलिंगो जीवो भिष्णो य सो पतिसरीरं । उत्रयोगो उक्करिसाऽत्रकरिसतो तेण तेऽणंता || २०३८॥
जेणो ०
० गाहा । आह-कथं पुनरात्मनां लक्षणभेदोऽभ्युपगम्यते ? उच्यतेयस्मात् ज्ञानदर्शनोपयोगलक्षणो जीवः स चोपयोगः प्रतिशरीरमुत्कर्षापकर्षभेदादानन्त्यं भजते, तदनन्तत्वादात्मनामप्यानन्त्यम् ॥२०३८ ||
एते सव्वगतत्तो णं सोक्खादयो णभस्सेव ।
कत्ता भोत्ता मंता ण य संसारी जधाऽऽगासं ॥। २०३९ ||
३५३
एग गाहा । ऐकत्वे हि खल्वात्मनो [न] सुखादयः सम्पद्यन्ते सर्वग तत्वात् । इह यत् सर्वगतं न तत्सुखादिगुणं यथाकाशम् । एवं न बध्यते, सर्वगतत्वात् । इह यत् सर्वगतं न तद् बध्यते यथाकाशम् । यच्च बध्यते न तत् सर्वगतं यथा देवदत्तः । एवं न मुच्यते, न कर्त्ता, न भोक्ता, न मन्ता, न संसारीत्यादि ॥२०३९॥
एगत्ते णत्थि सुही बहूवघातो ति [१३४ - प्र० ] देसणिरुयों व्व । बहुतरवद्धत्तणतो ण य मुक्की देसमुको व्व ॥ २०४०॥॥
एग गाहा । नात्मैकत्वे सुखी बहुतरोपघातात् । इह यो बहुतरोपघातो नासौ सुखी, यथा सर्वरोगावृतोऽङ्गुल्यैकदेशारोगः । यश्च सुखी नासौ बहुतरोपघातो यथेह विषयसम्पदुपेतोऽनुपद्रवो देवदत्तः । न चासौ मुक्तो बहुतरोपनिबन्धात् । इह यो बहुतरोपनिबन्धनो नासौ मुक्त इति व्यपदिश्यते, न वा १ एते जे । २ ण मोक्खा है को त । ३ तुलना मूत्रकृ० चु० १. १. १. १० पत्र २६ । ४ उ व्व है ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org