________________
३५२
विशेषावश्यकभाष्ये [नि० ४४३तदस्मद्वचनं यथा कूटसाक्षिवचनम् । अथवा सत्यं जीवास्तित्वाभिधानम्, सर्वज्ञवचनत्वात्, भवदनुमतसर्वज्ञवचनवत् ॥२०३२।।
भयरागेमोहदोसाभावातो सच्चमणतिवाति च । सव्वं चिय मे वयणं जाणयमज्झत्थवयणं व ॥२०३३॥
[भय०] गाहा० । अथवा सर्वमेव हि मे सत्यमनतिपाति वचनम्, रागद्वेषमोहमयाभावात् । इह यस्य रागद्वेषमोहमयाभावस्तद्वचनं सत्यमनतिपाति च दृष्टम्, यथा पथज्ञस्याभयस्य द्रष्टर्यरागद्वेषवतः सत्पथोपदेशवचनम् ॥२०३३॥
किंध सव्वण्णु त्ति मती जेणाहं सव्वसंसयच्छेत्ता। पुच्छसु व ज ण याणसि जेण वे ते पञ्चयो होज्जा ॥२०३४॥
किध गाहा । स्यान्मतिः-सर्वज्ञवचनत्वादिति मां प्रति सर्वज्ञत्वमसिद्धम् , भवतः रागद्वेषमोहमयाभावश्च । तच्च न, यस्य सर्वसंशयछेदनसामर्थ्यमस्ति स सर्वज्ञः । यथा क इति चेत् । प्रत्यक्षत्वादविप्रतिपत्तेश्च नान्वयोऽन्वेषणीयः । रागद्वेषमोहभयाभावश्च लिङ्गतोऽनुमेय इति ॥२०३४॥
एवमुवयोगलिंग गोतम ! सव्वप्पमाणसंसिद्धं । संसारीतरथावरतसाविभेत मुणे जीवं ।।२०३५॥
एव० गाहा । एवमनेन प्रकारेण प्रत्यक्षानुमानागमप्रमाणसिद्धमुपयोगात्मकं संसारीतरादिभेदमात्मानं प्रतिपयस्व ॥२०३५॥
जति पुण सो एगो च्चिय हवेज्ज वोमं व सव्वपिण्डेसु । गोतम ! तमेगलिंग पिण्डेसु तथा ण जीवोऽयं ॥२०३६।।
जति गाहा । आह-यदि पुनरसावेक एवाकाशवत् सर्वमूर्तिविशेपेषु स्यात् । तथोक्तम्
"एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥" [ बह्मबिन्दू० १२] Sr. "ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेत्ति स वेदवित् ।।" [गीता० १५.१] १ गदोसमोहाभा को हे त। २ वायं च त। ३ कह को हे त । । 'च्छेई को हे । ५ वि-त । ६ होई त । होज्ज जे । ५ तदेग को हे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org