________________
नि० ४४३]
वीरचरिते गणधरवादे जीवसिद्धिः ।
३४५
कतवं करेमि काहं चाहमहंपच्चयादिमातो य । अप्पा सप्पच्चक्खो तिकालकज्जीवदेसातो ॥२०१०॥
कतवं गाहा । इतश्च स्वप्रत्यक्ष एवायमात्माऽत्रै त्रैकाल्यकार्यव्यपदेशात् । तद्यथा कृतवान् अहं, करोम्यहं, करिष्याम्यहम्, उक्तवानहं, अवीम्यहं, वक्ष्याम्यहं, ज्ञानवानहं जानेऽहं ज्ञास्येऽहमिति योऽयं त्रिकालकार्यव्यपदेश हेतुम्हंप्रत्ययो नायमा. नुमानिकः । न चागमिकः । किं तहिं ? प्रत्यक्ष एवायम् । अनेनैवात्मानं प्रतिपद्यस्व, नायमनात्मनि घटादावुपलभ्यते ॥२०१०॥
“किह पडिवण्णमहन्ति य किमस्थि णत्थि त्ति संसओ 'किध णु । सइ संसयम्मि वाऽयं कस्साहंपच्चयो जुत्तो ।।२०११।।
किह गाहा । कथमह मिति प्रतिपद्यते, कथं च किमिदमस्त नास्तीति संशयः, संशयहेत्वभावात् । आह- संशये च सति कस्यायमहंप्रत्ययो युक्तरूपः ॥२०११॥
जति पत्थि संसयि च्चिय किमत्थि णत्थि त्ति संसओ कस्स । संसइते व सरूवे गोतम ! किमसंसयं होज्जा ॥२०१२।। ___ जति गाहा । संशयो हि विज्ञानाख्यो गुणविशेषः, न चापंद्रयोस्ति गुणः । अतः संशयसद्भावे संशयिनावश्यं भवितव्यम् । न चेत् संशयिनमात्मानं प्रतिपद्यसे किमहमस्मि नास्मीति-करयायं संशयः ? यस्य वा स्वयमेव संशेते किमस्मैि नास्मीति तस्यान्यत् किमसंशयं भवेदिति ! सर्वसंशयतश्चात्मनि को विशेषः ? अहंप्रत्ययवि. शिष्टं स्वप्रत्यक्षमात्मानं निबुवानस्य प्रत्यक्षविरुद्धः पक्षाभासोऽयम्, अश्रावणशब्दप्रतिपत्तिवत् । वक्ष्यमाणात्माऽस्तित्वानुमानसद्भावादनुमानविरुद्धः, घटनित्यत्वप्रतिपत्तिवत् । अहमस्मि संशयीति प्रागभ्युपगम्योत्तरत्र नास्तीति प्रतिजानानस्य पूर्वाभ्युपगमविरुद्धः, साङ्ख्याऽसत्कार्यप्रतिपत्तिवत् । आगोपालप्रतीतमात्मानमनभ्युपगच्छतो लोकविरुद्धोऽयम् - अचन्द्र प्रतिपत्तिवत् । अहं नाहं चेत्येवं पक्षश्च स्ववचनविरुद्धः, सर्वानृतवचनप्रतिपत्तिवत् । तथाहि- स्वप्रत्यक्षवादात्मन: 'अत्यन्ताप्रत्यक्ष वात्' इत्ययमपक्षधर्मत्वादसिद्धो हेत्वाभासः । विपक्षेऽपि हिमव पलानपरिमाणादौ दर्शनादनैकान्तिक., अक्षकरणाधिष्टायकत्वादनुमानप्रसिद्धेविरुद्धः ॥२०१२॥
१ या इमाओ य को। या इमाउ य हे । २ अप जे । ३ कज्जा को । ४ त्रैवाल्पकार्य इति प्रतौ। ५ कह को हे। ६ कह को हे । कध त । ७ अस्सा' को । ८ चायं द्र-इति प्रती। दु. गा० २०१५, २०१७ । ९ मस्मिन्नास्तीति-इति प्रतौ । १० किमस्मिन्नास्मीति इति प्रतौ। ११ त्वान्दमास - इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org