________________
विशेषावश्यकभाष्ये [नि० ४४३गुणपच्चक्खत्तणतो गुणी वि जीवो घडो व्व पच्चक्खो । घडओ वि घेप्पति गुणी गुणमेत्तग्गहणतो जम्हा ॥२०१३।।
गुण० गाहा । गौतम ! प्रत्यक्ष एवायमात्मा, गुणप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टो यथा घटः । घटोऽपि हि रूपादिगुणप्रत्यक्षत्वा. देव प्रत्यक्षः, तद्वद्विज्ञानादिगुणप्रत्यक्षत्वादात्मापीति । आह-अनैकान्तिकोऽयम्, यस्मादाकाशगुणः शब्दः प्रत्यक्षः, न त्वाकाशम् । उच्यते-नैवाकाशगुणः शब्दः, ऐन्द्रियकत्वाद्रूपादिवत् । अत एव च पुद्गलगुणः । आह-तद्गुणप्रत्यक्षताऽस्तु । उच्यते-गुणगुणिनोरेकत्वात् प्रत्यक्ष एवासौ ॥२०१३।
अण्णोऽषण्णो व्वं गुणी होज्ज गुणेहि जति णाम सोऽणण्णो । णणु गुणमेत्तग्गहणे घेप्पति जीवो गुणी सक्खं ॥२०१४॥
अण्णो गाहा । भवताऽपि हि गुणेभ्योऽर्थान्तरमनन्तरं वा गुणी प्रतिपद्यते ! यद्यनर्थान्तरमतो विज्ञानादिगुणप्रत्यक्षत्वादात्मप्रत्यक्षता सिद्धा ॥२०१४॥
अध अण्णो तो एवं गुणिणो ण घडातयो वि पच्चक्खा । गुणमेत्तग्गहणातो जीवम्मि कतो वियारो यं ॥२०१५।।
अध गाहा। अर्थान्तरमतः, न घटादयोऽपि गुणिनः प्रत्यक्षाः, गुणमात्रग्रहणात् । इह घटादीनां गुणमात्रमेवोपलभ्यते, न गुणिनः । तत्र यदुक्तं 'यतो न घटवदुपलभ्यते साक्षादयमतः संशयः' इत्येतद् घटादिष्वपि समानम्, आत्मनि को विशेषः ? अथ नापेंद्रव्यो गुणोस्तीत्यनुमानतोऽवसीयन्ते घटादयः । किमेवमात्माऽपि न गम्यते ? अर्थान्तराभ्युपगमे च गुणिनः प्रत्यक्षतायां च सर्वथात्मप्रसिद्धिः ॥२०१५॥
अध मण्णसि अस्थि गुणी ण तु देहत्थन्तरं तओ किंतु । देहे णाणातिगुणा सो च्चिय 'ताणं गुणी जुत्तो ॥२०१६।।
अध गाहा । अथ मन्यसे ---न गुणिनं प्रत्याचक्ष्महे विज्ञानादिगुणानाम्, किन्तु यत्रैवोपलभ्यन्ते विज्ञानादयः स एवैषां गुणी युक्तरूपः । यथा यत्रैव घटरूपादयः तत्रैव घटो नान्यत्र । देहमात्र एव च विज्ञानादिगुणोपलब्धित स एवैपां गुणी नार्थान्तरमिति ॥२०१६॥
णाणादयो ण देहस्स मुत्तिमत्तातितो [१३१-द्वि०] घडस्सेव । तम्हा जाणातिगुणा जस्स स देहाधियो जीवो ॥२०१७॥
वाद्भयादि-इति प्रतौ। २ व को हे। ३ 'हणो जे। ५ शयप्रत्ये-इति प्रतौ । ५ नाय - इति प्रतौ । ६ गुणास्ती -इति प्रतौ। ७ ण य त हे । न तदवत्यं को। ८ तेर्सि हे त को । ९ स्सऽमु को।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org