SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [नि० ४४३ " णय गाहा । न चेहात्म लिङ्ग सम्बन्ध दर्शनमभूत् कस्यचित् यदनुस्मरतः तल्लिङ्गमात्र दर्शनादात्मनि संप्रत्ययो भवेत् । स्यात् - सामान्यतो दृष्टेनानुमानेनाधिगम्यते, चन्द्रादित्यगतिवत् । न तत्रापि साक्षादेवदत्तादेर्देशादेशान्तरप्राप्तिदर्शनात् ॥ २००६॥ णागमगम्मो वि ततो भिज्जति जं णागमोऽणुमाणातो । य कीस पच्चक्खो जीवो जैस्सागमो वयणं ||२००७ || 1 नागम० गाहा । न चायमागमगम्योऽपि यतो नानुमानादागमो भिद्यते । यथेोर्ध्वे कुण्डलौष्ठायतवृत्ते ग्रीवादिमति घटशब्दप्रयोगदर्शनात् उत्तरत्र घटशब्दमात्रश्रवणात् अन्वयव्यतिरेकद्वारेण तत्रैवानुमानमुत्पद्यते । न चैवमयमात्मशब्दः शरीरादृतेऽन्यत्र प्रयुज्यमानः कचिदुपलब्धः, यत्र खल्वात्मश्रवणादात्मेति प्रत्ययो भवेत्, अदृष्टार्थस्याप्यागमस्याssसवादाऽविसंवाद सामान्यादनुमानता । न चासावाप्तः कश्चिदस्ति यस्यायमात्मा प्रत्यक्षः स्यात्, यद्वचनमागमं प्रतिपद्यामहे ||२००७|| जं चागमा विरुद्धा परोप्परमतो वि संसयो जुत्तो । सम्प्पमाण विसयातीतो जीवो सिते बुद्धी ||२००८|| जं चा० गाहा । यतश्चागमाः परस्परविरोधिनः खलु, युक्तरूपस्तद्यथा ३४४ " एतावानेव पुरुषो यावानिन्द्रियगोचरः । भद्रे ! वृकपदं ह्येतद्यद्वदन्त्यबहुश्रुताः ॥” यथोक्तं “विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञास्ति" [बृहदा० २.४.१२) तथा " न रूपं भिक्षवः पुद्गलः" इत्यादि । तथाऽस्तित्वप्रतिपत्तयः - " न ह वै शरीरस्य प्रियाप्रिययोरुपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः " [ छान्दो० ८ । १२ । १] इति । तथा "अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादि । तथा कापिलादयोऽभिमन्यन्ते 'अस्ति पुरुषः' इत्यतः परस्परविरोधित्वात् आगमोऽप्यप्रमाणम्, अतः सर्वप्रमाणगोचरातीतोऽयमित्यभिप्रायस्ते ||२००८ || गोतम ! पच्चक्खो' च्चिय जीवो जं संसयातिविष्णाणं । [१३२ - प्र० ] पच्चक्खं च ण सज्झं जध मुहदुवैखं सदेहम्मि ||२००९ || गोतम ! गाहा । गौतम ! प्रत्यक्ष एवायमात्मा, यदेतत् संशयादिविज्ञानं भवतः विज्ञानादात्मनोऽनन्यत्वात् । न च स्वप्रत्यक्षं साध्यम्, स्वदेहसुखदुःखा दिवत् ॥२००९|| १. कस्सइ को । २ कस्सा जे। ३ तो त । ४ 'क्खु हे । ५ क्खा त हे । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy