________________
नि० ५६६] त्रैराशिकनिहवः ।
५६९ दव्यामुत्तत्त० । णासे य सव्व० इत्यादि । छिन्नत्वा दित्यसिद्धो हेतुः, न जीवः छिद्यते दह्यते वा, अमूर्तद्रव्यत्वात् , अकृतकत्वात् , अविकारत्वात् , अभूत विनाशकारणत्वात् आकाशवत् । अनिष्टापादानमप्येवम्-सर्वनाशोऽपि जीवस्य स्यात् खण्डशः भिद्यमानत्वात् , पटादिवत् । जीवश्च त्वया जिनमतप्रमाणकेनाभ्युपगत इत्यागमविरोधः । जिनमतत्यागाद्वा अनिर्मोक्षः, संसारिजीवाभावात् । ततश्च भवत्प्रपन्नदीक्षावैफल्यमिति ॥२९४९-२९५०॥
__ अथैवं कल्पेत-संघातभेदधर्मा जीवः, सावयवत्वात् , पुद्गलस्कन्धवत् । न । अत्रापि दोषा इति गाथाअध खंधो इव संघातभेतधम्मा सेतो वि सम्वेसि । अपरोप्परसंकरतो सुहातिगुणसंकरो पत्तो ॥ २९५१ ।। ___ अथ खंधो इव । एवं तर्हि खंधवत् संघातभेदाभ्यां परस्परं जीवानां संहन्यमानत्वात् भिद्यमानत्वाच्च सावयवत्वादेव स्कन्धगुणसंकरवत् तत्सुखादिगुणसंकरोऽप्यवश्यभावीति धर्मविशेषविपर्ययसाधनादिष्टविघातकृद् विरुद्धः ।।२९५१॥
अथैतदोषभयात् स्कन्धवदवयवविच्छेदो नाभ्युपगम्यते । किं तर्हि ? धर्माधर्मास्तिकायादिदेशवदविभागे तत्रस्व(स्थ) एव पुच्छजीवदेश[:] सकलजीवत्वाभावात् को(नो)जीव उच्यते । एवमपि दोष एव ते
अध अविमुक्को वि तओ णोजीवो तो पतिप्पदेसं ते । जीवम्मि असंखेज्जा णोजीवा णत्थि जीवो ते ॥२९५२।। __ अध अविमुक्को वि तओ। अथाविमुक्तोऽपि जीवदेशो नोजीवः, एकस्मिस्तर्हि जीवे यावन्तः प्रदेशाः ते सर्वे नोजीवाः, जीवप्रदेशत्वात् , पुच्छदेशनोजीववत् । एवं च जीवो नास्ति कश्चित् , नोजीवसंघात त्रत्वात् , गृहकोकिलाजीववत् ॥२९५२॥
न केवलमेतावानेव दोपः किन्तु स्वसिद्धान्तप्ररूपितसर्वराश्यभाव एव प्राप्नोतीति गाथा
एवमजीवो' वि पदिप्पतेसभेदेण णोअनीव त्ति । णस्थि अजीवो केई कतरे ते तिण्णि [१९४-द्वि०] रासि त्ति ॥२९५३॥
एवमजीवो वि। एवं नास्ति(अस्त्य)जीवराशिरपि, नोअजीवसंघातत्वात् , एकजीववत् । एवं राशित्रयाभावादभ्युपगमविरोधः ॥२९५३।।
अथवा भवसिद्धान्ते अनिष्टापादनम्
१ स तो हे । २ तो त । ३ जीवाजीव-इति प्रतौ। ४ कोलिका-इति प्रतौ । ५ 'जीवा को हे त । ६ ‘जीवा को हे त। ७ केई को, केइ हे। ८ पि नोनामजी'-इतिप्रती
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org