________________
५२५
नि० ५४१] .
उपोद्घाते नयद्वारम् । घडकारविश्वखा० इत्यादि । कुम्भं करोतीत्येतस्यां विवक्षायां कर्तुः कुम्भकारादनन्तरं क्रियेति तक्रियासमाविष्टेन तक्रियासमवायिनि कर्तरि कारक इत्येव व्यपदेशो युक्तः कुर्दन् कर्ता कारक इति । कुम्भनाच्च कुम्भो भवतु मा भूत् कुम्भकारः, अर्थान्तरभूते कुम्भे तक्रियासमवायाभावात् । यदि पुनः कुम्भेऽपि सा क्रिया, कतैर्यपि, ततो वस्तुपर्यायसंकरादिदोषाः स्युरिति । अतो यः करोति, येन करोमि, यच्च करोति, तत् सर्वमेकम्, एकक्रियाऽऽविष्टत्वात् । समभिरूढो नयः ॥२७२०-२१॥
एतदनन्तरमेवंभूतनय उच्यते । तस्य सूत्रं "वंजणअत्थ तदुभयं एवंभूतो विसेसेइ' [नि० ५४१] अस्य भाष्यम्
एवं जध सहत्थो संतो भूतो तदेण्णधाभूतो । तेणेवंभूतणयो सहत्थपरो विसेसेणं ॥२७२२॥
एवं जध सहत्थो गाहा । एवंशब्दो यथाशब्दस्यार्थे द्रष्टव्यः । भूतशब्दः सत्पर्यायव चनः । एतन्मतादन्यथा असंज्ञैव प्राप्नोति । एवम्भूतो विद्यमानोऽन्यथा अभूत एवेति शब्दार्थपरो विशेषेण ॥२७२२॥
वंजणमत्थेणत्थं च वंजणेणोभयं विसेसेइ ।।
जध घडसई चेट्टावता तथा तं पि तेणेव ॥२७२३।। वंजण गाहा । व्यज्यतेऽनेन व्यनक्तीति वा व्यञ्जनं शब्दः । तद् व्यञ्जनमर्थन विशेषयति, अर्थ च व्यञ्जनेनान्वर्थत्वात् , घट चेष्टायामिति । यथा चेष्टा(ष्ट)या घ.शब्दं विशेषयति, एवं घटशब्देनापि चेष्टां न स्थानभरणादिक्रियामिति ॥२७२३।।
यतः-- सवसाद भिधेयं तप्पच्चयतो पदीवकुम्भी व्य ।
संसयविवज्जयेगत्तसंकरादिप्पसंगो वा ॥२७२४॥
सदवसा० गाहा । शब्दो व्यञ्जनं प्रकाशनमिति शब्दशादर्थः तत्प्रत्ययत्वात् प्रदीपवत् कुम्भवद् वा, अन्यथा संशय-विपर्ययैकत्व-सङ्करादयः प्रसज्येरन् । यदि दीपनक्रियारहितोऽपि दीप उच्यते, दीपशब्द उच्चरिते घटे दीपे वा प्रत्यय इति संशयः, घ2 एव वा न दीप इति विपर्ययः, घट इत्युक्ते दीप इति, दीप इत्युक्तेऽपि घट इति एकत्वम् , अतश्च सङ्करोऽपीति ॥२७२४॥
१°क्षा क' इति प्रतौ । २ तहण्ण त । ३ णेवं त । । "कुंभो को। ५ °संगाओ हे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org