SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ४८४ विशेषावश्यकभाष्ये [नि० ५२२ जति गाहा । यद्येवं ततो न तन्तवः पटस्य कारणम् , अभिन्नत्वात् , तन्तुस्वरूपवत् । कार्यकारणव्यपदेशाभावश्च । न चैतद्युक्तमेकत्वम् , उपपत्तिविकलरवात् । प्रतीपं चोपपत्तिरस्ति-नाना कार्य-कारणे, भिन्नाभिधानत्वात् , गवाश्ववत् ॥२५७३॥ अत्र दूषणमुच्यतेतुल्लोऽयमुवालंभो भेते वि ण तंतवो घेडस्सेव । कारणमेगत्ते वि य जतोभिधाणादयो भिण्णा ॥२५७४॥ तुल्लो गाहा । कार्यकारणभेदवादिनोऽप्ययमुपालम्भः समानः । भिन्नमपि नैव कस्यचित् कारणं कार्य वा भवितुमर्हति-न तन्तवः पटस्य कारणम् , भिन्नत्वात् घटस्येव । ननु चैवं दृष्ट-लोकविरुद्धः उच्यते । न विरोधः । सत्यं दृष्टास्तन्तवः पटस्य कारणत्वेन लोके, न च प्रतिपन्नास्ते तन्तवः एवंप्रतिपत्त्या भिन्ना अभिन्ना इति चैकान्तेन निश्चिताः । भिन्नाभिन्नरूपत्वात् कारणमिति वक्ष्यामः स्याद्वादनिरूपणायाम् । यदपि चोक्तं नाना कार्य-कारणे, भिन्नाभिधानत्वात् , गवाश्ववदित्ययमनैकान्तिकः, एकत्वेऽपि 'यतोऽभिधानादयो भिन्नाः' इति भिन्नाभिधानत्वमिति-एकत्वेऽपि शकपुरन्दरवत् दृष्टमिति ॥२५७४॥ तस्माद्भिन्नाभिन्नपक्षयोर्दोष इत्येकान्तपक्षमवधूय उभयदोषनिराकरणादुभयगुणौ. पसंग्रहाच्च वस्तुस्वरूपस्था[पनी स्याद्वादप्रक्रियैवाश्रयणीयेति गाथा जं कज्जकारणाई पज्जाया वत्थुणो जतो ते य । अण्णेऽणण्णे य मता तो कारणकज्जभयणेयं ॥२५७५।। जं गाहा । कार्य-कारणमिति वस्तुनः पर्यायो, विवक्षावशोपनयात् । तौ च पर्यायौ वस्तुनः पर्यायिणः कथञ्चिद्भिन्नौ संज्ञा-स्वालक्षण्य-स्वतत्त्व-प्रयोजन-मितिभेदादिभिः; कथञ्चिदभिन्नौ, ज्ञेयसद्व्यपृथिवीमृदादिसामान्यपर्यायैरविनाभाविभिः । तस्मादन्यानन्यौ मताविति । कार्यकारणभजना चेयं विवक्षाजनिता। पृथिवी कारणम् , मृत् कार्यम् । पुनश्चोत्तरविवक्षाभेदात् मृत् कारणम् , पिण्डः कार्यम् , तत उत्तरभेदापेक्षया पिण्डः कारणम् , शिवकः काम्, एवं कार्यकारणरूपत्वमे कस्य वस्तुनोऽपेक्षावशादिति।।२५७५।। अन्याऽनन्यत्वमेकवस्तुविषयं सिद्धान्तप्रसिद्धोदाहरणेन भाव्यते - णत्थि पुढवी विसिट्ठो घडो ति जं तेण जुज्जति अणण्णो । जं पुण घडो त्ति पुव्वं ण आसि पुढवी ततो अण्णो ॥२५७६।। दारं॥ १ पड' त । २ मेगते को हे। ३ 'नातेत्तुनैव प्रतिपत्त्यत्त्या सिन्ना अभि इति प्रतौ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy