________________
४८३
नि० ५२२]
उपोद्घाते कारणनिक्षेपः। निक्खेवो कारणम्मीत्यादि । करोतीति कारणं कर्तरि कारके स्वात्मानं कार्य निवर्तयतीत्यर्थः । 'कारणस्य निक्षेपः' इति वक्तव्ये 'कारणे निक्षेपः' इति अधिकरणनिदेशः पर्यायाणां घटपटादीनां मृत्-तन्त्वादिद्रव्यं कारणमाधार इत्येवं प्रकाशनार्थः । स च कारणे वकव्ये निक्षेपश्चतुर्विधः पूर्ववन्नामादि-नामकारणं स्थापनाकारणं च निर्दिष्टार्थम् , द्रव्यकारणं द्विविधमागमतो नोआगमतश्च । एतदपि पूर्वेण समानम् । यस्तु विशेषः स उच्यते-ज्ञशरीर-भव्यशरीरव्यतिरिक्तं नोआगमतो द्विविधं द्रव्यकारणम् । तव्यमन्यद्रव्यं चेति । अथवा अन्यथा द्विविधत्वं निमित्तकारणं नैमित्तकारणं च ।
___अथवा द्विविधं समवायिकारणमसमवायिकारणं चेति । अथवा षड्विधम्नोआगमतो द्रव्यकारणम् षड्विधमित्यनुस्वारोऽत्र प्राकृतशैल्या लुप्तो निर्दिष्टः । कर्त्ता कारणम् , करणम् कारणम् , एवं सम्प्रदानम् , अपादानम् , तथा सन्निधीयतेऽस्मिन्निति सन्निति(धिः) सन्निधानं अधिकरणमुच्यते ।।२५७०-७१॥
एषां विकल्पानामेकैको(कैकस्य) विवक्षावशादर्थनिगमी(म)सम्भवप्रदर्शनार्थम् , अनेकपर्यायख्यापनार्थ च वस्तुनः प्रपञ्चशोऽनेकभेदाभिधानं अर्थक्रमेण व्याख्यानमिति भाष्यगाथा
तहकार(१६९-द्विणं तंतवो पडैस्सेह जेण तम्मयता। दारं । विवरीतमण्णकारणमिह वेमादयो तस्स ॥२५७२॥ दारं॥ · तद्दव्वकारणमित्यादि । तस्यैव द्रव्यं तद्र्व्यम् , तच्च तत्कारणं च 'तव्यकारणम्' यथा तन्तवः पटस्य । 'येन तन्मयता' तच्छब्देन तन्तवोऽभिसम्बन्ध्यन्ते, तैनिर्वृत्तस्तन्मयस्तस्य भावस्तन्मयता । तन्तुमयपट इति तस्यैव पटस्य कार्यस्य द्रव्यं कारण तन्तवः । तद्विपरीतमन्यद्रव्यकारणं वेमादयः । विपरीतता अतन्मयत्वम् , अन्यस्यापि कार्यान्तरस्य शॉटक-शाटिकादेमादयः साधारणं कारणमित्यन्यद्रव्यकारणम् । यैः पुनः पटो निर्वृत्तस्तन्तुभिस्ते तस्यैवासाधारणं कारणं नान्यस्यापीति ॥२५७२।।
यद्येवं तस्यैव ते नान्यस्य। ततः कार्यकारणयोरेकत्वं प्राप्तम्-तन्तवः पट एवेति, असाधारणत्वात् , पटस्वरूपवत् । ततस्तदर्थप्रदर्शनी गाथा
जति तं तस्सेय मतं हेतू णणु कज्जकारणेगत्तं । ण य तं जुत्तं ताई जतोभिधाणातिभिण्णाई ॥२५७३॥
१ तं दव्व जे । २ पदस्से' जे । ३ तम' को, । ५ वेसाद' जे । ५ शादकशादि. कादेगर्वमा' इति प्रतौ । ६ स्सेव को हे त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org