SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ४७३ नि० ५१०] उपोद्घाते कालद्वारे कर्मोपक्रमः । कर्म प्राप्याऽवस्याऽनुभवे के नाम दोषाः कृतनाशादयः ? नैव भवन्तीत्यभिप्रायः । तत इयं गाथा सव्वं च पतेसतया भुज्जति कम्ममणुभावतो भइतं । तेणावस्साणुभवे के कतणासादयो तस्स ? ॥२५२१॥ सव्वं च प० गाहा गतार्था ॥२५२१॥ यस्माच्च सिद्धान्ते - उदय-क्खय-क्खयोवसमोवसमा जं च कम्मणोऽभिहिता । दव्वातिपंचयं पति जुत्तमुवरकामणमतो वि ॥२५२२।। उदय-क्खय० इत्यादि । उदयोऽनुभवः, क्षयो निर्जरा, देशक्षय-देशोपशमौ क्षयोपशमः, अनुदयावस्था विद्यमानस्योपशमः । एते भावाः कर्मणोऽभिहिताः द्रव्यादिपञ्चकं प्रति द्रव्यं क्षेत्रं कालं [भवं] भावं च प्रतीत्य यथासम्भवमुद[यादयश्चत्वारोपि भवन्तोति युक्तमुपक्रामणं कर्मण इति । प्रमाणम्-उदयक्षयक्षयोपशमोपशमाः कर्मणो यथाकालमयथाकालं च भवन्ति, बाह्यद्रव्यादिपञ्चकापेक्षत्वात् , यथा प्रपश्चितदीर्घकालिकाहारकवत् । अथवा पुण्यापुण्यकृतसातासातोदयादिवत् ॥२५२२॥ एतदृष्टान्तभावनार्था गाथापुण्णापुण्णकतं पि हु सातासातं जयोदयातीए । बज्झबलाधाणातो देति तथा पुण्ण पावं पि ॥२५२३॥ पुण्णापुण्णकतं पि हु इत्यादि । तथा पुण्यपापमपीति दान्तिकोऽर्थः प्रदयते कर्मेत्यर्थः ॥२५२३॥ कोपक्रममनभ्युपगच्छतो दोषख्यापनं गाथाद्वयेन--- जति वाणुभूतितो च्चिय खविज्जते कम्ममण्णधा ण मतं । तेणासंखभवज्जितणाणागतिकारणत्तणतो ॥२५२४ णाणाभवाणुभवणाभावादेम्मि पज्जएणं वा । अणुभवतो बंधातो मोक्खाभावो स चाणिट्ठो ॥२५२५॥ जति वाणुभूतितोच्चिय । णाणामाणुभवणा इत्यादि च । यदि वा अनुभवादेकैकस्मात् क्षिप्येत कॅर्म, नोपक्रमादपि, तेनासङ्ख्येयभवार्जितकर्मणो नानागैतिकारणभूतस्य एकस्मिन् भवे नानाभवानुभवनाभावात, पर्यायेणानुभवात् , पुनश्च तेषु १°म्मयणु त। २ °यखयखयों हे। ३ कम्मुणो त । ४ भणिया को हे त । ५ पुण्ण इति प्रतौ । ६ ताणु त । . भूइउ को हे। ८ देक्कम्मि को हे त। ९ सोक्खा जे। १० कर्मतोप' इति प्रतौ । ११ गच्छतिका इति प्रतौ। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy