________________
४६४ विशेषावश्यकभाष्ये
[नि० ५०४सुरसिद्ध । तत्र जीवाः सुराश्च सिद्धाश्च भव्याश्चाभयाश्च मुरसिद्ध[भत्र्याऽ]. भव्याः । सुरग्रहणमत्र [उप]लक्षणताप्रदर्शनमात्रम् । चतसृष्वपि गतिष सुरा मनुष्यास्तिर्यञ्चो नारकाश्च प्रत्येकं सादयः सपर्यवसिताश्च, सिद्धाः प्रत्येकं सिद्धपर्यायेण सादयः अपर्यवसानाः, भव्या भव्यत्वेनाऽनादयः सपर्यवसानाः, अभव्या [अ]भव्यत्वे[न] अनादयः अपर्यवसानाः, न कदाचिदमव्यावं जहतीति । एवं तावज्जीवाः स्थितिकालं प्राप्य चतु । अथाऽजीवा ये चेतनारहितास्तेऽपि चतुर्धेव-खंधाणागतऽतीता णभातयो चेतणारहिता। स्कन्धा द्विप्रदेशिकाद्यनन्तप्रचयाः पुद्गलाः सादयः सपर्यवसानाश्च, अनागताद्धा सादिरपर्यवसाना, अतीताद्धा अनादिसपर्यवसाना, नभोधर्माधर्मास्तिकाया अनादिर(द्य)पर्यवसानाः । एष द्रव्यसम्बन्धी द्रव्यकालः ।
ननु च "चेतणमचेतणस्स व दव्वस्स ठिती तु जा चतुविकप्पा" [गा० २५०३]इति सूत्रस्य चतुर्दशपूविस्थाविरहब्धस्य कोयं निर्देश: चेतणमचेतणस्स व दव्वस्स ? चेतनस्याचेतनस्य वा द्रव्यस्येति वक्तव्ये चेतनमित्ययुक्ताभिधानम् । यदि वा प्राकृतव्याकरणरूपसिद्धया परिहार उच्यते-प्राकृतशब्दसमासोऽयं चेतणं चाऽचेतणं चेति, ततः चेतणाचेतणमिति प्राप्ते अभूतोऽनुस्वार आगमः क्रियते ।
“णीया लोवमभूया य आणिया दो वि बिंदूभावा ।
अत्थं वहति तं चिय जो च्चिय सिं पुवणिदिवो ॥" इत्यादि सत्यमेव-समासपदात् षष्ठीति चेतणस्सेति-समाहितम् । एवं हि वाशब्दो विकल्पार्थो न घटते । चेतणस्स अचेतणस्स वा दबस्सेति भिन्नपदे वाशब्दो घटते, न समासपदे, एकपदत्वात् । न चेदमघटमानकमेवेति शक्य वक्तुम् , आप्तोपदिष्टत्वात् । अतोऽत्राभिप्राय उन्नीयते-समासपदं तावदभूताऽव्याहृतबिन्दुसमाहितमभेदविवक्षां दर्शयति-द्रव्यमेव काल इति । वाशब्दो भिन्नपदविषयस्तस्यैव भेदविवक्षां दर्शयतीति-द्रव्यस्य काल: स्थितिरित्यर्थः । अतो युक्त एव निर्देशः । "विचित्रा च सूत्रस्य कृतिः" इति ॥२५०६॥
अद्धाकालोपवर्णनार्थम्सूरकिरियाविसिट्ठो गोदोहोतिकिरियामु णिरवेक्खो। अद्धाकालो भण्णति समयक्खेतम्मि समयाती ॥२५०७॥ १ °रवृद्धस्य -इति प्रतौ । २ चेतनस्या वा-इति प्रतौ। ३ गोदाहा त । १ यखें है।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org