________________
नि० ४८३] गणधरवादे निर्वाणसिद्धिः। शात् अजीवत्वमिष्टमेवेति नाभ्युपगमविरोधः । ततश्चासति बाधने विरुद्धचोदनेति युक्तमेवाचार्येण भण्यते , स्वयमाहतस्याभ्युपगमविरोधाभावात्, परस्य च जीवपदार्थस्याजीव[त्व प्राप्तेरनिष्टापादनात् ।
कदाचित् सर्वात्मगुणहाने सिद्धत्वप्राप्तावजीवत्वमेवेत्येभ्युपगच्छेत् पर इति । तन्निवारणार्थमियं गाथा युज्यते-दव्यामुत्तत्तसभावजातितो। द्रव्यं चामूर्तवं चेति द्रव्याऽमूतत्वे ताभ्यां द्रव्यामूर्तत्वाभ्यां स्वभाव जातिरात्मपदार्थश्चेतनः । अजीवपदार्थेभ्योऽन्येभ्य आकाशादिभ्यो द्रव्यत्वामूर्तत्वसामान्येऽपि न स्वभावजात्येकत्वं भवति, जात्यन्तरगमनमेव, नभस इवाचेतनस्य सतो जीवत्त्वगमनमिति, दूरविपरीतजात्यन्तरत्वात् । तस्मात् मुक्तस्याऽजीवत्वमनिष्टं सर्वप्रवादेवात्मपदार्थाभ्युपगमेषु । तच्चाजीवत्वमापद्यमानं हेतुफलाद् विरुद्धमिति स्फुट एव विरुद्धः ॥२४ ४९॥
ततश्च करणाभावादज्ञानी मुक्त इत्येतदसाधनम्, करणानां ज्ञानस्य चात्यन्तव्यतिरेकात् । कथमिति तदर्थं गाथा
मुत्तातिभावतो गोवलद्धिमंतिन्दियाइं कुंम्भो व्व ।। उवलंभद्दाराणि तु ताई जीवो[१६१-द्वि०] तदुवलद्धा ॥२४५०॥
मुत्ताति० गाहा । नोपलब्धिमन्तीन्द्रियाणि इति पक्षः। मूर्त्तादि[मत्त्वात् । मूर्तत्विं च पुद्गलसंघातरूपत्वात् अचेतनत्वादिति । आदिग्रहणादनेक हेतुत्वम्. यत्तु ज्ञानं अनुभवसिद्धं दृष्टं तदात्मस्वरूपम् । इन्द्रियाणि तु तस्योपलब्धिद्वाराणि । [तत्र] चोपलब्धा जीवः ॥२४५०॥ __ न चेन्द्रियाण्यात्मा । कुतः ? यस्मादियं गाथा--- तदुवरमे वि सरणतो तव्यावारे वि णोवलंभातो । इंदियभिण्णो आता पंचगवक्खोवलद्धा वा ॥२४५१॥
तदुवरमे वि गाहा। अत्र प्रमाणद्वयं यथाक्रमेण-इन्द्रिये योऽय आत्मा 'ज्ञाता, तदुपरमेऽपि तद्द्वारोपलब्धार्थस्मर्तृत्वात् पञ्चगवाक्षेभ्य इव देवदत्तः । अथवा इन्द्रियेभ्योऽन्यः आत्मा ज्ञाता, तद्व्यापारेऽप्यनुयुक्तस्यानुपलब्धृत्वात् , विवृतगवाक्षे इवान्यमनस्कदेवदत्तः । तस्मादात्मा ज्ञानस्वरूपः सर्वदा, [न] ज्ञानरहितः कदाचिदपि । आवरणापगमसम्बन्धात्तु शुद्धाऽशुद्धज्ञानत्वं विशेषः ॥२४५१॥
१ मेवेत्युपर-इति प्रतौ। । द्धिमिति त ३ 'तिदि को हे । ५ कुंभो हे। ५ णाता जे । ६ ज्ञानात्तदु'- इति प्रतो । ७ 'रणाप्रथमस'--इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org