________________
विशेषावश्यकभाष्ये
[नि०४८३
"स्थितश्चन्द्रांशुवज्जीवः प्रकृत्या भावशुद्धया ।
चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥१॥" [ योगदृ० १८१] अनाबाधसुखसम्बन्धी जीवः विरहिताबाधहेतुत्वात् ज्वरापगमस्वस्थनरवत् अपि चोक्तम्
"व्याबाधाभावाच्च स सर्वज्ञत्वाच्च भवति परमसुखी । व्याबाधाभावोऽत्र स्वस्थस्य ज्ञस्य नेनु सुसुखम् ॥२॥" ॥२४४७॥
अथवा कश्चिदाहमुत्तो करणाभावादण्णाणी खं व णणु विरुद्धोऽयं । जमजीवता वि पावति एत्तो च्चिय भणति तं णाम ॥२४४८॥
मुत्तो करणाभावादित्यादि । अज्ञानी मुक्तः, अकरणत्वादाकाशवत् । नन्वेवं धर्मिस्वरूपविपर्ययसाधनाविरुद्धः-आकाशवदजीवोऽपि मुक्तः प्राप्नोति एतस्मादेव हेतोरिति । एवमाचार्येणोक्त परः विल प्रत्याह-भवतु तन्नाम । नामेत्यनुज्ञायाम्अजीवो नाम मुक्तो भवतु, न कश्चिद्दोषः । एषोऽस्याभिप्रायः-विरुद्धोऽसति बाधने, तन्नामाऽजीवत्वमिष्टमेवेति सिद्धसाधना द्विरुद्धाभाव इति । ननु चैवाहतस्य ब्रुवाणस्य स्वतोऽभ्युपगमविरोध इति बाधने सति कथं विरुद्धता चोद्यते ? सर्वत्र च विरुद्धानैकान्तिकत्वेषूभयसिद्धस्य परिग्रह इति न्यायलक्षणात्, मा वा ॥२४४८॥
अत्र परिहारगाथा-~ दव्यामुत्तत्तसभावजातितो तस्स दूरविवरीतं । ण हि जच्चंतरगमणं जुत्तं णभसो वे जीवत्तं ॥२४४९॥
इयमप्यसम्बद्धा । यतः परेणैवं चोदिते एषा युज्यते वक्तम्, न स्वयं चोदिते विरुद्धे, तत् कथमेतद् गमनीयम् ! पूज्यक्षमाश्रमणपादानामभिप्रायो लक्षणीयः । उच्यते-परस्यापि जीवपदार्थश्चाऽजीवपदार्थश्चेत्युभयं विद्यते । जीवः संसारी मुक्तश्चेति द्वेधा । तस्य मुक्तस्याऽजीवत्वापादनमनिष्टमेव । परस्यैकान्तवादिनः पदार्थसङ्करापत्ति भयात् तस्याऽजीवत्वम(त्वा)भ्युपगम एव विरोध एव, न सिद्धसाधनं भवति । यत्तु तेनाभ्युपगम्यते भवतु तन्नामेति सा मूढता तस्य । तन्मूढताप्रदर्शनार्थ परिहारगाथा युज्यते दवाऽमुत्तत्तसभावजातितो इत्यादि । आर्हतानां तु सर्वविषयाऽनेकान्तवादिनां मुक्तस्यापि जीवाजीवोभयधर्माभ्यनुज्ञानात् केनचिदंशेन नयवादान्तरविवक्षाव
१ 'स्य परमसुख हे. । २ तन्नाम को हे। ३ बाधने नन्नामो जी -इति प्रतौ । ४ वमाहा।। तस्याबुवा' इति प्रतौ । ५ व्य हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org