________________
नि० ४८३] निर्वाणसिद्धिः।
४४९ होतूणमित्यादि । एगेगिन्दियगज्झा इत्यादि'। होतूणमिति भूत्वेति संस्कृतस्य प्राकृतरूपसिया होतूणेति भवति । कचिदभूतस्याप्यनुस्वारस्य प्रयोगो देशीपदच्छन्दोनुवृत्तिवशात् । होतूणमिदियंतरगज्झा विवक्षितादिन्द्रियादन्यदिन्द्रियं इन्द्रियान्तरं तस्मादपीन्द्रियत्वेन विवक्षितात् पूर्वमिन्द्रियान्तरमिति । विचित्रपरिणामता पुद्गलानां लोकप्रसिद्ध्या । बादरं सूक्ष्मं भवति, सूदममपि बादरं भवति दीनारेषु स्थूलमपि रूप्यकं ताम्रकं च प्रयोगपरिणामविशेषात् सूक्ष्मीभवति, दीनारादपकृष्यते, तपश्च दीनारोऽवतिष्ठते । पुनश्च सूक्ष्मरूप्यकं ताम्रकं च भस्मनिलीनं प्रयोगविशेषादग्निपाकाद्विवेच्य स्थूलं चक्षुःस्पर्शग्राह्य पिण्डीभूतं च प्रदर्श्यते । लवणं च चक्षु-स्पर्शग्राह्य धन-कर्कशं भूत्वा अप्सु सूपे वा चक्षु-स्पर्शविषयं न भवति, रसनघ्राणेन्द्रियान्तरग्राह्यतां प्राप्नोति । एवमेकैकेन्द्रियग्राह्या वाय्वग्न्यादयो भूत्वा पुनस्तस्येन्द्रियस्याविषयत्वं यात्वा इन्द्रियान्तरविषयतामनुभवन्तीति चित्रता पुद्गलपरिणामस्य । एवं प्रदीपानलोऽपि सूक्ष्मधूममषीपरिणामात् सूक्ष्मतामुपगच्छति, नाभावो भवतीति ॥२४४४-४५||
तद्वज्जीवोऽपि कर्मफलशरीरादिसम्बद्धत्वात् स्थूलः स कर्मविगमात् स्वाभाविकाऽमूर्तपरिणाममनाबाधसुख[म]दुःखलक्षणं सूक्ष्मपरिणाम प्राप्तः परिनिर्वाण उच्यते इति । एतदर्थदर्शनी गाथा
जध दीवो णिव्वाणो परिणामतैरमितो तधा जीवो । भण्णति परिणेव्याणो पत्तोऽणावाधपरिणामं ॥२४४६॥
जय दीवो गतार्था ॥२४४६॥
तस्य चैवं परिनिर्वृतस्यानाबाधलक्षणं सुखमस्तीत्युच्यतेमुत्तस्स परं सोक्खं गाणाणाबाधतो जघा मुणिणो । तद्धम्मा पुण विरहादावरणाबाघहेतूणं ॥२४४७॥
मुत्तस्स परं सोक्खं इत्यादि । मुक्तस्य कर्मभिर्जीवस्य परं सौख्यमस्ति ज्ञानित्वात् , अनाबाधत्वाच्चैर्व प्रज्ञानोत्पत्तिः, निःसङ्गस्य मुनेरिव । उक्तं च
"नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य ।
यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥" [प्रशम० १२८] यदि वा कश्चित् ज्ञानित्वमनाबाधत्वं चाऽसिद्धं मन्येत तत्प्रसाधनार्थम-तद्धर्मा पुनः स्वाभाविकेन प्रकाशेन प्रकाशवान् जीवः प्रकाशावरणरहितत्वात् , चन्द्रांशुवत् ।।
१ दिवत्-इति प्रतौ। २ 'बन्धत्वान्-इति प्रतौ। ३ दिव्वो ४ 'मन्तर' हे । ५रिनिव्वा को हे। ६ त्वाच्चावाप्र-इति प्रतौ । जीवरहितप्रकाशावरणत्वात् इति प्रतौ । द्रष्टव्या को वृत्तिरत्र । तत्रापि 'रहित'पदस्य विपर्ययो: दृश्यते ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org