________________
[ नि० ४८३
,
व्यपदेशास्तत्र संनिहिता एव सम्बन्ध्यन्तरसम्बन्धविशेषापेक्षित्वात् पितृपुत्रनप्त्रादिसम्बन्धविशेषण विशिष्ट पुरुषवत् । नित्यवस्तु मृत् पिण्डरूपविवक्षान्तरप्राप्तत्वादनित्यम्, शिबकादिरूपेण जायमानत्वात् पूर्वरूपपरित्यागात् । अनित्यं शिबकादि विवक्षान्तरप्रापणान्नित्यम्, मृद्द्रव्यस्वरूपानतिरिक्तत्वात् । केऽन्ये शिबकादयोऽन्यत्र मृद्रव्यात्, सुवर्णकटकाङ्गदादिवत् ॥२४४१॥
કેટ
विशेषावश्यकभाष्ये
यच्चोक्तम्-कर्मवियोगानन्तरं जीवस्वरूपनाश एवं अनुपलभ्य तद्विकारत्वात्, प्रदीपानलवदिति । तदूषणाय गाथा-
णय सव्वधा विणासोऽणलस्स परिणामतो पयस्सेव । कुंभस्स कवालाण व तथा विकारोवलंभातो ॥२४४२॥
णय सव्वधा विणासो इत्यादि । न सर्वथा विनाशः प्रदीपानलस्येति साध्यधर्मशून्यताऽपि दृष्टान्तस्य, परिणामित्वात् पयस इव । तथा कुम्भ (म्भ ) कपालदर्शनेवदुपलभ्यमानविकारत्वात् साधनधर्मशून्यतापि प्रदीपानलदृष्टान्तस्याख्यायते ॥२४४२|
1
अपर आह
[१६१ - प्र० ] जति सव्वधा ण णासोऽणलस्स किं दीसते ण सो सक्खं । परिणाममुहुमयातो जलदविकारंजणरयो' व्व || २४४३॥
जति सव्वधा ण णासो इत्यादि । यदि सर्वथा नैं नश्यति प्रदीपानलः, ततः किमिति कपालयत्तद्विकारः प्रत्यक्षं नोपलभ्यत इति । अतो नास्त्येव तद्विकारः, प्रत्यक्षेणानुपलभ्यमानत्वात्, खरविषाणवत् । अयमनैकान्तिक इति दर्शयति- जलदादीनां पुतलात्मकत्वात् संघातविशेषादैन्द्रियकत्वम् तेषामेव सूक्ष्मपरिणामात् पुनरदृश्यत्वम्', न परमाणवो विनश्यन्ति । तस्माज्जलदविकारः सन्नपि प्रत्यक्षेण नोपलभ्यत इत्यनैकान्तिकहेतुत्वम् । अञ्जनरजोवदिति दृष्टान्तबाहुल्यं सुखप्रतिपत्त्यर्थम् । संघातात् परिणामाच्चैन्द्रियकं बादरं भवतीति ॥२४४३॥ एतत् प्रपञ्चेन दर्शयन्नाह -
होतूर्णमिन्दियंतरगज्झा पुनरिन्दियन्तरग्गहणं ।
खन्धा एन्ति ण एन्तिं य पोग्गलपरिणामता चित्ता ॥ २४४४ || "एगेगिन्दियगज्झा जध वायव्वादयो तथऽग्गेया । होतुं चक्खुग्गज्झा घाणीतिग्गज्झतामेन्ति || २४४५ ॥
Jain Educationa International
१ नबहुप इति प्रतौ । २ विगारं को हे । ३ सु को है । ४ न कस्येति- इति प्रतौ । ५ जलदानात्पु - इति प्रतौ । ६ त्वम्-इत्यनन्तरं 'न परदृश्यत्वम्' इत्यधिकम् । ७ ऊणं इन्दि को | 'ऊ इन्दि' हे । ८ °रिदियं को हे । ९ खंधा एंति न एंति को हे । १० गेगेंदि को है । ११ घाणिदियगज्जं को हे त ।
For Personal and Private Use Only
www.jainelibrary.org