________________
नि० ४८३]
निर्वाणसिद्धिः। अथवा यदुच्यते नारकादिपर्यायेण कृतकत्वं जीवस्य, संसाराभावात् कर्मापगमात् मुक्तात्मना वा मोक्षस्य कृतकत्वमिति तदसिद्धत्वप्रकाशनायाह--
किं वेगंतेण कतं पोग्गलमेत्तविलयम्मि जीवस्स । कि णिवत्तितमधियं णभसो घडमेतविलयम्मि ॥२४३९॥
किं वेगंतेण · कतमित्याह । कर्मपुद्गलसंयोगविनाशे जीवस्तदवस्थ एव नित्योऽकृत कश्च, द्रव्यरूपत्वात् , संयोग(गि)घटविनाशे आकाशवदिति ॥२४३९।।
अपि च प्रमाणं नित्यो जीवः द्रव्यार्थ(ा)मूर्तत्वादाकाशवत् । एतदर्थ गाथापूर्वार्द्धम्--
दन्वामुत्तत्तणतो मुत्तो णिच्चो णभं व दव्वतया। दव्यामुत्तत्तणतो इत्यादि । अयमेवेष्टविघातकृद् विरुद्ध इति पश्चार्द्धन दर्शयति ।
णणु विभुतातिपसंगो एवं सति णाणुमाणातो ॥२४४०॥
णणु विभुतातिपसंगो इत्यादि । तद्वदाकाशवत् सर्वगतत्वमपि जीवस्य प्राप्नोति । तच्चाहतानामनिष्टम् । तस्माद्विरुद्धः । एवं सति ‘णाणुमाणातो' सर्वगतत्वमनुमानविरुद्धमिति निराक्रियते-न सर्वगतो जीवः, त्वक्पर्यन्त'मात्रशरीरख्याप्येव, तत्रैवोपलभ्यमानगुणत्वात् घटवत् । त(अ)तश्च न सर्वगतो जीवःबध्यमानत्वाच्च, अपराधिबद्धमुक्तदेवदत्तवत् , काष्ठभारकवद्वा । यच्च सर्वगतं तन्न बध्यते, आकाशवत् । एवमनुमानादिष्टविघातकृद्विरुद्धाभावः ॥२४४०॥
अथवा कोऽयमेकान्तग्राहः-सर्वथा नियमेवानित्यमेव वा, कृतकमेवाऽकृतक. मेव वा, यस्मात् सर्ववस्तु पर्यायान्तरमात्रार्पणात् नित्यमप्यनित्यम् , अनित्यमपि नित्यं भवति, कृतकमकृतकं च, उत्पाद-व्यय-ध्रौव्यस्वरूपत्वाद् , घटाङ्गुलिद्रव्यादिवत् । तदर्थप्रदर्शिनी गाथा
को वा णिच्चग्गाहों' सव्वं चिय विभवभंगद्वितिमइयं । पज्जायंतरमेत्तप्पणा हे णिच्चातिववदेसो ॥२४४१॥
को वा णिच्चग्गाहो इत्यादि । विविधो भवो विशिष्टो वा विभव उत्पादः। भञ्जनमामईनमन्यथा भवनं भङ्गो विनाशः । स्थितिरवस्थानं ध्रौव्यमित्यर्थः । विभवभङ्ग-स्थितिभिर्निर्वृत्तं विभवभङ्गस्थितिमयम् । अत एव 'त्रितयमयस्य वस्तुनः पर्यायमात्रविवक्षावशात् येन येन रूपेणाऽर्यते तत्सम्भविना तत्तद्वयपदेशं प्रतिपद्यते, इतरख्यपदेशानविवक्षितान्न(न्ना)पनयत्येव, न चोपादत्ते । अपरित्यक्तानुपात्तरूपास्ते
१ जीवः स्वकार्य त मात्र-इति प्रतौ । २ नापदिष्टंविघात-इति प्रतौ । ३'च्चगा को। १ प्पणादिणिच्चा को प्पणादनि' हे। ५ एव तृत-इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org