________________
४४६ विशेषावश्यकभाष्ये
(नि०४८३इतश्च नित्यो जीवः, अत्रानुपलभ्यमानविकारत्वात् , आकाशवत्, यश्च नित्यो न भवति तस्यावश्यं विकार उपलभ्यते, यथा घटस्य कपालानि शर्करिका 'पांश्वादि वा, पटस्य तन्तवः तद्भेदप्रभेदा वा । एतदर्थप्रदर्शिनी गाथा--
ण विकाराणुवलंभादागासं पिव विणासधम्मो सो । इह णासिणो विकारो दीसति कुंभस्स वावयवा ॥२४३६।।
ण विकाराणुवलं भा० इत्यादि । गतार्था ।।२४३६।।
अथवाऽभिप्रायो भवतःकालंतरणासी वा घडो व्य कतकादितो मती होज्जा । णो पद्धंसाभावो भुवि तद्धम्मा वि जं णिच्चो ॥२४३७॥
कालंतरणासी वा इत्यादि । यद्यपि न क्षणप्रध्वंसी घटस्तथापि कालान्तरविनाशी दृष्टः एवं कालान्तरविनाशी जीवो भविष्यति, सुर-नारकादिपर्यायैः कृतकत्वाद् , घटवत् । एवं मोक्षोऽप्यनित्यो भविष्यति, कृतकत्वाद् , घटवदेव । अयमनैकान्तिको हेतुः-प्रध्वंसाभावो न विनश्यतीति नित्यः, अथ च तत्रापि कृतकत्वं दृष्टमिति । कपालानां मुद्गराधभिघातात् कृतकत्वमिति । ननु चायुक्तमिदमुच्यते, प्रध्वंसाभावः कृतक इति । अय)स्मादुक्तम्---
"हेतुर्यस्य विनाशोऽपि तस्य दृष्टोऽङ्करादिवत् । विनाशस्तु विनाशस्य नास्ति तस्मादहेतुकः" ॥१॥ अहेतुकत्वाद् विनाशस्य कृतकत्वं नास्ति,अभावत्वात्, खरविषाणस्येव ॥२४ ३७॥
अत इयं गाथा-- अणुदाहरणमभावो खरसंग पिव मती ण तं जम्हा । कुम्भविणासविसिट्ठो भावो च्चिय पोग्गलमयो सो ॥२४३८॥
अणुदाहरणमभावो इत्यादि । 'अकृतकः प्रध्वंसाभावः, अभावत्वात् , खरविषाणवत्' इति यदुक्तं तस्यापक्षधर्मत्वं हेतोः-भाव एव प्रध्वंसाभावः, पुद्गलमयत्वात् प्रागभावमृत्पिण्डवत् । तत् किमुच्यते प्रध्वंसाभाव इति ? आह-कुम्भविनाशोपलक्षितत्वात् कपालानां भावरूपाणामेवाऽपरापेक्षयाँऽभावत्वात् । यथा कुम्भानुत्पत्तिमात्रविशेषणान् मृत्पिण्डस्य प्रागभावत्वं भावस्यैव, तद्वत् प्रध्वंसाभावस्येति अभावत्वमसिद्धम् । ततश्च कृतकत्वं नित्यत्वं च सिद्धं भवति ॥२४३८||
। 'कायांस्वादि-इति प्रतौ। २ इत्यनन्तरं अन्नशोमीमहस्मादि'-इति वर्तते । तस्य तुसंगतिर्न ज्ञायते । ३ विगा को हे। ४ विगा' को हे। ५ वाहिप्रा इति प्रतौ। ६ कयगा को हे। ७-८ प्रतौ - श च-इति पाठः । ९ सिंगं को त । १० यात्माभा' इति प्रतौ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org