________________
नि० ४८३]
निर्वाणसिद्धिः।
मनैकान्तिको हेतुः । धातु-काञ्चनयोरनादिः संयोगः । स च सपर्यवसानो दृष्टः, क्रियाविशेषात् । एवमयमपि जीवकर्मसंयोगः सम्यग्ज्ञानदर्शनचारित्रैः सपर्यवसानो भविष्यति । जीवकर्मवियोगश्च मोक्ष इत्युच्यते ॥२४३२॥अथ मन्येथाः-- जं णारेगातिभावो संसारो णारेगातिभिण्णो य । को जीवो तो मण्णसि तण्णासे जीवणासो त्ति ॥२४३३॥
जणारगातिभावो इत्यादि । अपि च संसारः क उच्यते ! ननु नारका(क). तिर्यग्यौन-मनुष्य-देवत्वानि, नान्यः संसारः । तेभ्यश्च नारकादित्वेभ्यो भिन्नः को नाम जीवः ? नारकादय एव पर्याया जीवः, तदनन्तरत्वात् । संसाराभावे जीवाभाव एवेति असत्पदार्थों मोक्षः ॥२४३३।। अत्रापि प्रतिविधीयते
ण हि णारगातिप॑ज्जायमेत्तणासम्मि सवधा णासो ।
जीवदव्वस्स मतो मुद्दाणासे व हेमस्स ॥२४३४॥ .. ण हि गाहा । यदुक्तम्-नारकादिसंसाराभावे सर्वथा जीवाभाव एव, अनर्थान्तरत्वात् , नारकादिपर्यायस्वरूपवदिति । अयमप्यनैकान्तिको हेतुः-हेम्नो मुदिकायाश्च अनर्थान्तरत्वं सिद्धम् , न च मुद्रिकाऽऽकारनाशे सर्वथा हेमविनाश इति । यद्वा नारकादिपर्यायमात्रनाशे [न] सर्वथा जीवनाशो भविष्यति । ॥२४३४॥ एतदेव भावयति--
कम्मकतो संसारो तण्णासे तस्स जुज्जते णासो । जीव[१६०-द्वि०]त्तमकम्मकतं तण्णासे तस्स को णासो ॥२४३५॥
कम्मकतो संसारो इत्यादि । संसरणं संसारो नारकादिपर्यायानुभवनम् । तस्य कर्मणो नारकादिपर्यायकारणस्याभावे युक्त एव नारकपर्यायविनाशः, कारणाभावात् कार्याभाव इति । यत् पुनर्जीवत्वमेतत् कर्मकृतं न भवति, अनादिपारिणामिकभावत्वाज्जीवत्वस्य । ततस्तत् कर्मविनाशेऽपि न नदयति । नारकपर्यायमात्रेण तु विनश्यति, न सर्वात्मना जीवः । तस्मात् संसाराभावेऽपि मुक्तात्मना जीवोऽवतिष्ठत इति मुक्तसद्भावः ॥२४३५।।
१ गागराति त । २ नारया को, गागराति त । ३ जीवो तं को हेत। जीवा तो-जे । ४ गायपत। ५ तत्तो से त ६ अस्स को ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org