________________
४४४
विशेषावश्यकभाष्ये
[नि०४८२आभट्ठो य जिणेणं जाति जरामरणविप्पमुक्केणं । णामेण य गोत्तेण य सव्यण्णूसव्वदरिसीणं ॥४८२॥२४२८॥ किं मण्णे णेव्वाणं अत्थि [व] णत्थि त्ति संसयो तुझं । वेतपताण य अत्थं ण याणसी तेसिमो अत्थो ॥४८३॥२४२९॥ मण्णसि किं दीवस्स व णासो 'णेव्वाणमस्स जीवस्स । दुक्खक्खयादिरूवा किं होज्ज व से सतोऽवत्था ॥२४३०॥
ते पव्वइते सोतुं । आभट्ठो गाहा । किं गाहा । मण्णसि गाहा । हे आयुष्मन् कौण्डिन्य प्रभास : निर्वाणास्तित्वगतो भवतः संशयः । स च वेदवाक्यानामुभयथा दर्शनाज्जातः, यत इंदं वेदवाक्यम् "जरामय वा एतत् सत्रं यदग्निहोत्रम् ।". शत०१२. ४. १.१] क्रिया भूतवधभूतोपकाररूपत्वाच्छबलाकारा, जरामर्यवचनाद् यावज्जीवं नित्यक्रिया, सा चाभ्युदयफला, न चान्यः कश्चित् कालोस्ति, यस्मिन्नपवर्गप्रा पणक्रियारभ्येत । तस्मान्नास्ति मोक्षः, साधनाभावात् , कारणविरहितघटवत् । तथाऽन्यद्वेदवाक्यं मोक्षास्तित्वे “सैषा गुहा दुरवगाहा" तथा "द्वे बा(ब्रह्मणी वेदितव्ये, परमपरं ब्रह्म ।" मोक्ष इति तस्याभिधानम् । तस्मादुभयथा विप्रतिपत्ति(त्तेः) संशयः ।
तत्र निर्वाणाभावपक्षं निराकरिष्णुः पूर्वपक्षं ग्राहयति-कर्मवियोगानन्तरं जीवस्य स्वरूपाभावात्, तेन रूपेण विनष्टत्वात् , विध्यातप्रदीपवत् । एवं चेन्मन्यसे मोक्षाभाव इति । अथवा अत्यन्तदुःखक्षयात् स्वाभाविकाव्याबाधसुखस्वरूपा जीवस्य स्वेन रूपेण स्वत एवावस्था मोक्ष इति ॥२४२७-३०॥ अहवाऽणातित्तणतो खस्स व किं कम्मजीवजोगस्स । अविजोगातो ण भवे संसाराभाव एवंन्ति ॥२४३१॥
अहवाऽणातित्तणतो इत्यादि । अथवाऽनादिकारणश्च जीवकर्मसंयोगः, अनादित्वात् , जीवाकाशसंयोगवत् । अतश्च संसार एव सर्वदा, न मोक्ष इति ॥२४३१।।
विप्रतिपताविदमुच्यते-- पडिवज्ज मेंण्डिओ इय वियोगमिह "जीवकम्मनोगस्स । तमणातिणो वि कंचणधातूण व णाणकिरियाहि ॥२४३२॥
पडि० गाहा । मण्डिकवक्तव्यताऽतिदेशाद् ग्रन्थलाघवमाचार्यस्य । यत् तत्रोक्तं तदिहापि योजनीयम् । अपि च यदुक्तमपर्यवसानो जीवकर्मसंयोगोऽनादित्वादिति, अय
१ निव्वाणं को हे दी हा म । २ अत्थी नत्थि म । ३ तुज्झ को हे त म । ४ याणसि दी हा । .. निव्वा को हे। ६ वि त । ७ क्रिया स्य चा'-इति प्रतौ। ८ विभोगा को हे। ९ वत्ति को हे। १० मंडि को। ११ 'मिह कम्मजीवजों को हे त।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org