________________
४५२ विशेषावश्यकभाष्ये
[नि० ४८३यस्य पुनर्ज्ञानरहितोऽसौ मुक्तः, तस्य जीव एवासौ न भवति, ज्ञानरहितत्वे नाभ्युपगतत्वात्, परमाणुवत् । तस्माद् विरुद्धमेतत् मुक्तिभावेन सिद्धत्वेन विद्यतेऽसौ जीवः, ज्ञानरहितश्चेति, परमाणुरपि सिद्धः प्राप्नोति । तदर्थमियं गाथा
णाणरहितो ण जीवो सरूवतोऽणु व्व मुत्तिभावेणं । जं तेण विरुद्धमितं अस्थि य सो णाणरहितो य ॥२४५२॥ ___णाण० गाहा । भाविता ॥२४५२।। किधे सो णाणसरूवो णणु पच्चक्खाणुभूतितो णियए । परदेहम्मि वि गज्झो स पवित्तिणिवित्तिलिंगातो ॥२४५३।।
कथं पुनरात्मा ज्ञानस्वरूप इति ? ज्ञानस्वरूप आत्मा, स्वात्मविज्ञानानुभवप्रत्यक्षसिद्धेः, परदेहे च इष्टानिष्टप्रतिपत्तिभ्यां स्वात्मवदित्यनुमानात् ॥२४५३॥
यदि चैवमेकदेशज्ञानावरणापगमात् किञ्चिदज्ञः, ततोऽसौ निःशेषावरणक्षयात् शुद्धतरो भविष्यत्यनावरणत्वात्, विगताभ्रावरणसूर्यवत् । प्रकाशमयत्वस्य भावादज्ञानत्वं न युक्तमिति गाथोच्यते -
सव्वावरणावगमे सो सुद्धतरो ईवेज्ज सूरो ब्व । तम्मयभावाभावादण्णाणितं ण जुत्तं से ॥२४५४॥
सवावरणावगमे इत्यादि गतार्था ॥२४५४॥
एवं संसार्यवस्थायां सर्वज्ञावस्थायां सिद्धावस्थायां च प्रकाशक एव जीवः आवरणापगमविशेषात्त किञ्चिन्मात्रावभासनं सर्वावभासनं च, प्रदीपस्येव गवाक्षान्तरस्थितपुरुषस्येव वा भवतीति गाथाद्वयम् -
एवं पयासमइओ जीवो छिद्दावभासयत्तातो । 'किंचिम्मत्तं भासति छिद्दावरणप्पैदीवो व्य ॥२४५५|| सुबहुँअतरं वियाणति मुत्तो सप्पिधाणविगमातो । अवणीत बरो व्व णरो विगतावरणो" पदीवो व्य ॥२४५६॥
एवं पयासमइओ इत्यादि । सुबहु • गाहा । किञ्चिन्मात्रावभासकः संसारी छिन्ना[छिन्ना]वरणत्वात् छिन्ना[छिन्ना]वरणप्रदीपवत् । उत्पन्नकेवलज्ञानः सिद्धश्च
१ ज्ञानरहितेत्वेनोभ्यु-इति प्रतौ । २ कध । त। ३ विय' को। ५ भवे हे । ५ तम्स त । ६ सो त । ७ स्यैव इति प्रतौ। ८ पगास को हे। ५. किंचि जे त । १० म्मेत्त को हे त । ११ णपई हे। १२°हुयरं को हे त १३ मुत्ता जे । १४ सव्या पि जे १५ णीध त । १६ रणप्प को हे त।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org